ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः।
राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ 6.10.1 ॥
शैलाग्रचयसङ्काशं शैलशृङ्गमिवोन्नतम्।
सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ 6.10.2 ॥
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्।
राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम् ॥ 6.10.3 ॥
मत्तमातङ्गनिश्वासैर्व्याकुलीकृतमारुतम्।
शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ॥ 6.10.4 ॥
प्रमदाजनसम्बाधं प्रजल्पितमहापथम्।
तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥ 6.10.5 ॥
गन्धर्वाणामिवावासमालयं मरुतामिव।
रत्नसञ्चयसम्बाधं भवनं भोगिनामिव ॥ 6.10.6 ॥
तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मि(मा)वान्।
अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ 6.10.7 ॥
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्।
शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ 6.10.8 ॥
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः।
मन्त्रवैदविदो विप्रान् ददर्श सुमहाबलः ॥ 6.10.9 ॥
स पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा।
आसनस्थं महावाहुर्ववन्दे धनदानुजम् ॥ 6.10.10 ॥
स राजदृष्टिसम्पन्नमासनं हेमभूषितम्।
जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ 6.10.11 ॥
स रावणं महात्मानं विजने मन्त्रिसन्निधौ।
उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ 6.10.12 ॥
प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः।
देशकालार्थसंवादी दृष्टलोकपरावरः ॥ 6.10.13 ॥
यदाप्रभृति वैदेही सम्प्राप्तेमां पुरीं तव।
तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥ 6.10.14 ॥
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः।
मन्त्रसन्धुक्षितोऽप्यग्निर्न सम्यगभिवर्धते ॥ 6.10.15 ॥
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च।
सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ 6.10.16 ॥
गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः।
दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥ 6.10.17 ॥
खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति नः।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥ 6.10.18 ॥
वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः।
समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ 6.10.19 ॥
गृध्राश्च परिलीयन्ते पुरीमुपरिपिण्डिताः।
उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ 6.10.20 ॥
क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः।
श्रूयन्ते विपुला घोषाः सविस्फूर्जथुनिस्वनाः ॥ 6.10.21 ॥
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्।
रोचते यदि वैदेही राघवाय प्रदीयताम् ॥ 6.10.22 ॥
इदं च यदि वा मोहाल्लोभाद्वा व्याहृतं मया।
तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ 6.10.23 ॥
अयं च दोषः सर्वस्य जनस्यास्योपलक्ष्यते।
रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ 6.10.24 ॥
श्रावणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः।
अवश्यं च मया वाच्यं यद्दृष्टमपि वा श्रुतम् ॥ 6.10.25 ॥
सम्प्रधार्य यथान्यायं तद्भवान् कर्तुमर्हति ॥ 6.10.26 ॥
इति स्म मन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान्।
रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥ 6.10.27 ॥
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम्।
निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ 6.10.28 ॥
भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्।
सुरैः सहेन्द्रैरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ 6.10.29 ॥
इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः।
दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ 6.10.30 ॥