००९ विभीषणनीतिः

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः।
सुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः ॥ 6.9.1 ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ 6.9.2 ॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ 6.9.3 ॥
परिघान् पट्टिशान् प्रासान् शक्तिशूलपरश्वधान्।
चापानि च सबाणानि खड्गांश्च विपुलान् शितान् ॥ 6.9.4 ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ 6.9.5 ॥
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ 6.9.6 ॥
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ 6.9.7 ॥
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ 6.9.8 ॥
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ 6.9.9 ॥
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्।
जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ 6.9.10 ॥
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्।
कृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ 6.9.11 ॥
बलान्यपरिमेयानि वीर्याणि च निशाचराः।
परेषां सहसाऽवज्ञा न कर्तव्या कथञ्चन ॥ 6.9.12 ॥
किं च राक्षसराजस्य रामेणापकृतं पुरा।
आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ 6.9.13 ॥
खरो यद्यतिवृत्तस्तु रामेण निहतो रणे।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ 6.9.14 ॥
अयशस्यमनायुष्यं परदाराभिमर्शनम्।
अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ 6.9.15 ॥
एतन्निमित्तं वैदेह्या भयं नः सुमहद्भवेत्।
आहृता सा परित्याज्या कलहार्थे कृतेन किम् ॥ 6.9.16 ॥
न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ 6.9.17 ॥
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ 6.9.18 ॥
यावत् सुघोरा महती दुर्द्धर्षा हरिवाहिनी।
नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ 6.9.19 ॥
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः।
रामस्य दयिता पत्नी स्वयं न यदि दीयते ॥ 6.9.20 ॥
प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम।
हितं पथ्यमहं ब्रूमि दीयतामस्य मैथिली ॥ 6.9.21 ॥
पुरा शरत्सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान् सुदृढान्नृपात्मजः।
सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ 6.9.22 ॥
त्यज स्वकोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्द्धनम्।
प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ 6.9.23 ॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ 6.9.24 ॥