ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः।
अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ 6.8.1 ॥
देवदानवगन्धर्वाः पिशाचपतगोरगाः।
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥ 6.8.2 ॥
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता।
न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः ॥ 6.8.3 ॥
सर्वां सागरपर्यन्तां सशैलवनकाननाम्।
करोम्यवानरां भूमिमाज्ञापयतु मा भवान् ॥ 6.8.4 ॥
रक्षां चैव विधास्यामि वानराद्रजनीचर।
नागमिष्यति ते दुःखं किञ्चिदात्मापराधजम् ॥ 6.8.5 ॥
अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ 6.8.6 ॥
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ॥ 6.8.7 ॥
अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्।
प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ॥ 6.8.8 ॥
ततोऽब्रवीत् सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः।
प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ॥ 6.8.9 ॥
किं वो हनुमता कार्यं कृपणेन तपस्विना।
रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ॥ 6.8.10 ॥
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ 6.8.11 ॥
इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि।
उपाय कुशलो ह्येव जयेच्छत्रूनतन्द्रितः ॥ 6.8.12 ॥
कामरूपधराः शूराः सुभीमा भीमदर्शनाः।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥ 6.8.13 ॥
काकुत्स्थमुपसङ्गम्य बिभ्रतो मानुषं वपुः।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ 6.8.14 ॥
[ तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥ ] स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ 6.8.15 ॥
ततो वयमितस्तूर्णं शूलशक्तिगदाधरः।
चापबाणासिहस्ताश्च त्वरितास्तत्र याम ह ॥ 6.8.16 ॥
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥ 6.8.17 ॥
एवं चेदुपसर्पेतामनयं रामसक्ष्मणौ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥ 6.8.18 ॥
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्।
अब्रवीत् परमक्रुद्धो रावणं लोकरावणम् ॥ 6.8.19 ॥
अहमेको हनिष्यामि राघवं सहलक्ष्मणम्।
सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ॥ 6.8.20 ॥
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः।
क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत् ॥ 6.8.21 ॥
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः।
एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् ॥ 6.8.22 ॥
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तो मधुवारुणीम् ॥ 6.8.23 ॥
अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्।
अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥ 6.8.24 ॥