द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः।
[ अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि ] ॥ 6.7.1 ॥
राजन् परिघशक्त्यृष्टिशूलपट्टिशसङ्कुलम्।
सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥ 6.7.2 ॥
त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ॥ 6.7.3 ॥
कैलासशिखरावासी यक्षैर्बहुभिरावृतः।
सुमहत् कदनं कृत्वा वश्यस्ते धनदः कृतः ॥ 6.7.4 ॥
स महेश्वरसख्येन श्लाघमानस्त्वया विभो।
निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ 6.7.5 ॥
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च।
त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ 6.7.6 ॥
मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता।
दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ॥ 6.7.7 ॥
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः।
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ 6.7.8 ॥
निर्जितास्ते महाबाहो नागा गत्वा रसातलम्।
वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥ 6.7.9 ॥
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः।
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ॥ 6.7.10 ॥
[ निर्जिताः समरे रोषाल्लोकपाला महाबलाः।
देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः] ॥ 6.7.11 ॥
शूराश्च बलवन्तश्च वरुणस्य सुता रणे।
निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ॥ 6.7.12 ॥
मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम्।
कालपाशमहावीचिं यमकिङ्करपन्नगम् ॥ 6.7.13 ॥
अवगाह्य त्वया राजन् यमस्य बलसागरम्।
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ॥ 6.7.14 ॥
सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ 6.7.15 ॥
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः।
आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ 6.7.16 ॥
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे।
प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ॥ 6.7.17 ॥
तिष्ठ वा किं महाराज श्रमेण तव वानरान्।
अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति ॥ 6.7.18 ॥
अनेन हि महाराज माहेश्वरमनुत्तमम्।
इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ॥ 6.7.19 ॥
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम्।
गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम् ॥ 6.7.20 ॥
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्।
रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥ 6.7.21 ॥
अनेन हि समासाद्य देवानां बलसागरम्।
गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ 6.7.22 ॥
पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा।
गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः ॥ 6.7.23 ॥
तमेवं त्वं महाराज विसृजेन्द्रजितं सुतम्।
यावद्वानरसेनां तां सरामां नयति क्षयम् ॥ 6.7.24 ॥
राजन्नापदयुक्तेयमागता प्राकृताज्जनात्।
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ 6.7.25 ॥