राक्षसेन्द्रो हनुमता शोकेणेव महात्मना।
अब्रवीद्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः ॥ 6.6.1 ॥
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी।
तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ 6.6.2 ॥
प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः।
आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ 6.6.3 ॥
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्।
उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत् ॥ 6.6.4 ॥
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः।
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ॥ 6.6.5 ॥
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः।
तेषां तु समवेतानां गुणदोषो वदाम्यहम् ॥ 6.6.6 ॥
मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये।
मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ॥ 6.6.7 ॥
सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्।
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ 6.6.8 ॥
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ 6.6.9 ॥
गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम्।
करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥ 6.6.10 ॥
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः।
एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः ॥ 6.6.11 ॥
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा।
मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ 6.6.12 ॥
बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये।
पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः ॥ 6.6.13 ॥
अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते।
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ 6.6.14 ॥
तस्मात् सुमन्त्रितं साधु भवन्तो मतिमत्तमाः।
कार्यं सम्प्रतिपद्यन्तामेतत् कृत्यं मतं मम ॥ 6.6.15 ॥
वानराणां हि वीराणां सहस्रैः परिवारितः।
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ॥ 6.6.16 ॥
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ॥ 6.6.17 ॥
तरसा युक्तरूपेण सानुजः सबलानुगः।
समुद्रमुच्छोषयति वीर्येणान्यत् करोति वा ॥ 6.6.18 ॥
अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह।
हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम ॥ 6.6.19 ॥