००५ रामेण सीतास्मरणम्

सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता।
सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ 6.5.1 ॥
मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ।
विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ 6.5.2 ॥
निविष्टायां तु सेनायां तीरे नदनदीपतेः।
पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ 6.5.3 ॥
शोकश्च किल कालेन गच्छता ह्यपगच्छति।
मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ 6.5.4 ॥
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा।
एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ 6.5.5 ॥
वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश।
त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ 6.5.6 ॥
तन्मे दहति गात्राणि विषं पीतमिवाशये।
हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ 6.5.7 ॥
तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा।
रात्रिन्दिवं शरीरं मे दह्यते मदनाग्निना ॥ 6.5.8 ॥
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना।
कथञ्चित् प्रज्वलन् कामः स मा सुप्तं जले दहेत् ॥ 6.5.9 ॥
बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम्।
यदहं सा च वामोरूरेकां धरणिमाश्रितौ ॥ 6.5.10 ॥
केदारस्येव केदारः सोदकस्य निरूदकः।
उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ 6.5.11 ॥
कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्।
विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ 6.5.12 ॥
कदा नु चारु बिम्बोष्ठं तस्याः पद्ममिवाननम्।
ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ 6.5.13 ॥
तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ।
कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः ॥ 6.5.14 ॥
सा नूनमसितापाङ्गी रक्षोमध्यगता सती।
मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ 6.5.15 ॥
कथं जनकराजस्य दुहिता सा मम प्रिया।
राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ 6.5.16 ॥
कदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति।
विधूय जलदान्नीलान् शशिरेखा शरत्स्विव ॥ 6.5.17 ॥
स्वभावतनुका नूनं शोकेनानशनेन च।
भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ 6.5.18 ॥
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्।
सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥ 6.5.19 ॥
कदा नु खलु मां साध्वी सीता सुरसुतोपमा।
सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं पयः ॥ 6.5.20 ॥
कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्।
सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ 6.5.21 ॥
एवं विलपतस्तस्य तत्र रामस्य धीमतः।
दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत् ॥ 6.5.22 ॥
आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत ॥ 6.5.23 ॥
स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ 6.5.24 ॥