श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ 6.4.1 ॥
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः।
क्षिप्रमेनां मथिष्यामि सत्यमेतद् ब्रवीमि ते ॥ 6.4.2 ॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ 6.4.3 ॥
अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे।
सीतां हृत्वा तु मे जातु क्कासौ यास्यति यास्यतः ॥ 6.4.4 ॥
सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते।
जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ॥ 6.4.5 ॥
उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ 6.4.6 ॥
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6.4.7 ॥
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 6.4.8 ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ 6.4.9 ॥
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ 6.4.10 ॥
फलमूलवता नील शीतकाननवारिणा।
पथा मधुमता चाशु सेनां सेनापते नय ॥ 6.4.11 ॥
दूषयेयुर्दुरात्मनः पथि मूलफलोदकम्।
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 6.4.12 ॥
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ 6.4.13 ॥
य च्च फल्गु बलं किञ्चित् तदत्रैवोपयुज्यताम्।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुद्ध्यताम् ॥ 6.4.14 ॥
सागरौघनिभं भीममग्रानीकं महाबलाः।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ 6.4.15 ॥
गजश्च गिरिसङ्काशो गवयश्च महाबलः।
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ 6.4.16 ॥
यातु वानरवाहिन्या वानरः प्लवतां वरः।
पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 6.4.17 ॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ 6.4.18 ॥
यास्यामि बलमध्येऽहं बलैघमभिहर्षयन्।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ 6.4.19 ॥
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ 6.4.20 ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ 6.4.21 ॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ॥ 6.4.22 ॥
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ 6.4.23 ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 6.4.24 ॥
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ 6.4.25 ॥
तं यान्तमनुयाति स्म महती हरिवाहिनी ॥ 6.4.26 ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः।
क्ष्वेलन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम् ॥ 6.4.27 ॥
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च।
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥ 6.4.28 ॥
अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च।
पततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ॥ 6.4.29 ॥
रावणो नो निहन्तव्यः सर्वे च रजनीचराः।
इति गर्जन्ति हरयो राघवस्य समीपतः ॥ 6.4.30 ॥
पुरस्तादृषभो वीरो नीलः कुमुद एव च।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ 6.4.31 ॥
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च।
बहुभिर्बलिभिर्भूमैर्वृताः शत्रुनिबर्हणाः ॥ 6.4.32 ॥
हरिः शतवलिर्वीरः कोटीभिर्दशभिर्वृतः।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ 6.4.33 ॥
कोटीशतपरीवारः केसरी पनसो गजः।
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 6.4.34 ॥
सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ 6.4.35 ॥
तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः।
सम्पतन् पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ 6.4.36 ॥
दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ 6.4.37 ॥
अपश्यंस्ते गिरिश्रेष्ठं सह्य दुमलतायुतम्।
सरांसि च सुफुल्लानि तटाकानि वनानि च ॥ 6.4.38 ॥
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्।
वर्जयन्नगराभ्याशांस्तथा जनपदानपि ॥ 6.4.39 ॥
सागरौघनिभं भीमं तद्वानरबलं महत्।
उत्ससर्प महाघोषं भीमघोष इवार्णवः ॥ 6.4.40 ॥
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः।
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ॥ 6.4.41 ॥
कपिभ्यामुह्यमानौ तौ शुशुभाते नरोत्तमौ।
महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ 6.4.42 ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 6.4.43 ॥
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा।
उवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ॥ 6.4.44 ॥
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्।
समृद्धार्थस्समृद्धार्थामयोध्यां प्रतियास्यसि ॥ 6.4.45 ॥
महान्ति च निमित्तानि दिवि भूमौ च राघव।
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥ 6.4.46 ॥
अनुवाति शुभो वायुः सेनां मृदुहितः सुखः।
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ॥ 6.4.47 ॥
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः।
उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ 6.4.48 ॥
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षमः।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ 6.4.49 ॥
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः।
पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 6.4.50 ॥
विमले च प्रकाशेते विशाखे निरुपद्रवे।
नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 6.4.51 ॥
नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ 6.4.52 ॥
सर्वं चैतद्विनाशाय राक्षसानामुपस्थितम्।
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ 6.4.53 ॥
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च।
प्रवान्त्यभ्यधिकं गन्धान् ययर्तुकुसुमा द्रुमाः ॥ 6.4.54 ॥
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो।
देवानामिव सैन्यानि सङ्ग्रामे तारकामये ॥ 6.4.55 ॥
एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हिसि।
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥ 6.4.56 ॥
अथावृत्य महीं कृत्स्नां जगाम महती चमूः।
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ॥ 6.4.57 ॥
कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः।
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ 6.4.58 ॥
सपर्वतवनाकाशां दक्षिणां हरिवाहिनी।
छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्तीतः ॥ 6.4.59 ॥
उत्तरन्त्यां च सेनायां सततं बहुयोजनम्।
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ 6.4.60 ॥
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च।
मध्येन च समन्ताच्च तिर्यक्चाधश्च साऽविशत् ॥ 6.4.61 ॥
समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 6.4.62 ॥
ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः।
हरयो राघवस्यार्थे समारोपितविक्रमाः ॥ 6.4.63 ॥
हर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम्।
यौवनोत्सेकजान् दर्पान् विविधांश्चक्रुरध्वनि ॥ 6.4.64 ॥
तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथाऽपरे।
केचित् किलकिलां चक्रुर्वानरा वनगोचराः ॥ 6.4.65 ॥
प्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि।
भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ॥ 6.4.66 ॥
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः।
महानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ॥ 6.4.67 ॥
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥ 6.4.68 ॥
शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः।
वानराणां तु घोराणां श्रीमत्परिवृता मही ॥ 6.4.69 ॥
सा स्म याति दिवारात्रं महती हरिवाहिनी।
हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ 6.4.70 ॥
वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः।
प्रमोक्षयिषवः सीतां मुहूर्तं क्कापि नासत ॥ 6.4.71 ॥
ततः पादपसम्बाधनानामृगसमायुतम्।
सह्यपर्वतमासेदुर्मलयं च महीधरम् ॥ 6.4.72 ॥
काननानि विचित्राणि नदीप्रस्रवणानि च।
पश्यन्नतिययौ रामः सह्यस्य मलयस्य च ॥ 6.4.73 ॥
वकुलांस्तिलकांश्चूतानशोकान् सिन्धुवारकान्।
करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवङ्गमाः ॥ 6.4.74 ॥
अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान्।
जम्बूकामलकान्नीपान् भञ्जन्ति स्म प्लवङ्गमाः ॥ 6.4.75 ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ 6.4.76 ॥
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ 6.4.77 ॥
अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ 6.4.78 ॥
धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः।
सुमहद्वानरानीकं छादयामास सर्वतः ॥ 6.4.79 ॥
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः।
केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ॥ 6.4.80 ॥
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः।
चिरिबिल्वा मधूकाश्च वकुलाः प्रियकास्तथा ॥ 6.4.81 ॥
स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ 6.4.82 ॥
मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा।
धवाः शाल्मलयश्चैव रक्ताः कुरबकास्तथा ॥ 6.4.83 ॥
नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा।
प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः ॥ 6.4.84 ॥
चक्रवाकानुचरिताः कारण्डवनिषेविताः।
प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः ॥ 6.4.85 ॥
ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ 6.4.86 ॥
पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ 6.4.87 ॥
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ 6.4.88 ॥
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः।
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ 6.4.89 ॥
फलान्यमृतगन्धीनि मूलानि कुसुमानि च।
बुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः ॥ 6.4.90 ॥
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः।
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ॥ 6.4.91 ॥
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः।
विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ॥ 6.4.92 ॥
वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः।
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे ॥ 6.4.93 ॥
बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः।
यथा कलमकेदारैः पक्वैरिव वसुन्धरा ॥ 6.4.94 ॥
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः।
अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ 6.4.95 ॥
ततः शिखरमारुह्य रामो दशरथात्मजः।
कूर्ममीनसमाकीर्णमपश्यत् सलिलाकरम् ॥ 6.4.96 ॥
ते सह्यं समतिक्रम्य मलयञ्च महागिरिम्।
आसेदुरानुपूर्व्येण समुद्रं भीमनिस्वनम् ॥ 6.4.97 ॥
अवरुह्य जगामाशु वेलावनमनुत्तमम्।
रामो रमयतं श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ 6.4.98 ॥
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः।
वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ 6.4.99 ॥
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्।
इहेदानीं विचिन्ता सा या नः पूर्वं समुत्थिता ॥ 6.4.100 ॥
अतः परमतीरोऽयं सागरः सरितां पतिः।
न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 6.4.101 ॥
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति।
यथेदं वानरबलं परं पारमवाप्नुयात् ॥ 6.4.102 ॥
इतीव स महाबाहुः सीताहरणकर्शितः।
रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ 6.4.103 ॥
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव।
सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ॥ 6.4.104 ॥
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्।
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं च नः ॥ 6.4.105 ॥
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः।
सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ 6.4.106 ॥
विरराज समीपस्थं सागरस्य च तद्बलम्।
मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥ 6.4.107 ॥
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः।
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥ 6.4.108 ॥
तेषां निविशमानानां सैन्यसन्नाहनिःस्वनः।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 6.4.109 ॥
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता।
त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 6.4.110 ॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 6.4.111 ॥
दूरपारमसम्बाधं रक्षोगणनिषेवितम्।
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ 6.4.112 ॥
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ 6.4.113 ॥
चन्द्रोदयसमुद्धूतं प्रतिचन्द्रसमाकुलम् ॥ 6.4.114 ॥
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ ] चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ 6.4.115 ॥
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्।
सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् ॥ 6.4.116 ॥
मकरैर्नागभोगैश्च विगाढा वातलोलिताः।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 6.4.117 ॥
अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम्।
सुरारिविषयं घोरं पातालविषमं सदा ॥ 6.4.118 ॥
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ 6.4.119 ॥
सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा।
तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ 6.4.120 ॥
समुत्पतितमेघस्य वीचिमालाकुलस्य च।
विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥ 6.4.121 ॥
अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिस्वनाः।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ 6.4.122 ॥
रत्नौघजलसन्नादं विषक्तमिव वायुना।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ 6.4.123 ॥
ददृशुस्ते महोत्साहा वाताहतजलाशयम्।
अनिलोद्धूतमाकाशे प्रवल्गन्तमिवोर्मिभिः ॥ 6.4.124 ॥
ततो विस्मयमापन्ना ददृशुर्हरयस्तदा।
भ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम् ॥ 6.4.125 ॥