सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित्।
प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ 6.3.1 ॥
तपसा सेतुबन्धेन सागरोच्छोषणेन वा।
सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ 6.3.2 ॥
कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे।
ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ 6.3.3 ॥
बलस्य परिमाणं च द्वारदुर्गक्रियामपि।
गुप्तिकर्म च लङ्कायां रक्षसां सदनानि च ॥ 6.3.4 ॥
यथासुखं यथावच्च लङ्कायामसि दृष्टवान्।
सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ 6.3.5 ॥
श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः।
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ 6.3.6 ॥
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः।
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ 6.3.7 ॥
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्।
विभागं च बलौघस्य निर्देशं वाहनस्य च ॥ 6.3.8 ॥
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ 6.3.9 ॥
महती रथसम्पूर्णा रक्षोगणसमाकुला।
वाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः ॥ 6.3.10 ॥
दृढबद्धकवाटानि महापरिधवन्ति च।
द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ 6.3.11 ॥
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च।
आगतं परसैन्यं तु तत्र तैः प्रतिहन्यते ॥ 6.3.12 ॥
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः।
शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ 6.3.13 ॥
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः।
मणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः ॥ 6.3.14 ॥
सर्वतश्च महाभीमाः शीततोयवहाः शुभाः।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ 6.3.15 ॥
द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ 6.3.16 ॥
त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ 6.3.17 ॥
एकस्त्वकम्प्यो बलवान् सङ्क्रमः सुमहादृढः।
काञ्चनैर्बहुभिस्स्तम्भैर्वेदिकाभिश्च शोभितः ॥ 6.3.18 ॥
स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ 6.3.19 ॥
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा।
नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ 6.3.20 ॥
स्थिता पारे समुद्रस्य दूरपारस्य राघव।
नौपथोऽपि च नास्त्यत्र निरादेशश्च सर्वतः ॥ 6.3.21 ॥
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा।
वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ 6.3.22 ॥
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ 6.3.23 ॥
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्।
शूलहस्ता दुराधर्षा सर्वे खड्गाग्रयोधिनः ॥ 6.3.24 ॥
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ 6.3.25 ॥
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ 6.3.26 ॥
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ 6.3.27 ॥
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ 6.3.28 ॥
ते मया सङ्क्रमा भग्राः परिखाश्चावपूरिताः।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ 6.3.29 ॥
बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ 6.3.30 ॥
येन केन च मार्गेण तराम वरुणालयम्।
हतेति नगरी लङ्का वानरैरवधार्यताम् ॥ 6.3.31 ॥
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः।
नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ 6.3.32 ॥
सपर्वतवनां भित्त्वा सखातां सप्रतोरणाम्।
सप्राकारां सभवनामानयिष्यन्ति राघव ॥ 6.3.33 ॥
एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम्।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ 6.3.34 ॥