००२ राम-सुग्रीवसंवादः

तं तु शोकपरिद्यूनं रामं दशरथात्मजम्।
उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ॥ 6.2.1 ॥
किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा।
मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ॥ 6.2.2 ॥
सन्तापस्य च ते स्थानं न हि पश्यामि राघव।
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ 6.2.3 ॥
मतिमाञ्छास्त्रवित् प्राज्ञः पण्डितश्चासि राघव।
त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम् ॥ 6.2.4 ॥
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ 6.2.5 ॥
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः।
सर्वथा व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ 6.2.6 ॥
इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥ 6.2.7 ॥
एषां हर्षेण जानामि तर्कश्चास्मिन् दृढो मम ॥ 6.2.8 ॥
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्।
रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ॥ 6.2.9 ॥
सेतुरत्र यथा बद्ध्येद्यथा पश्येम तां पुरीम्।
तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ 6.2.10 ॥
दृष्ट्वा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्।
हतं च रावणं युद्धे दर्शनादुपधारय ॥ 6.2.11 ॥
अबद्ध्वा सागरे सेतुं घोरे तु वरुणालये।
लङ्का न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 6.2.12 ॥
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः।
सर्वं तीर्णं च वै सैन्यं जितमित्युपधारय ॥ 6.2.13 ॥
इमे हि समरे शूरा हरयः कामरूपिणः ॥ 6.2.14 ॥
तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशिनी।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥ 6.2.15 ॥
यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता।
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ॥ 6.2.16 ॥
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्।
विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ॥ 6.2.17 ॥
त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः।
मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि ॥ 6.2.18 ॥
न हि पश्याम्यहं कञ्चित्त्रिषु लोकेषु राघव।
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ 6.2.19 ॥
वानरेषु समासक्तं न ते कार्यं विपत्स्यते।
अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥ 6.2.20 ॥
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते।
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ 6.2.21 ॥
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः।
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ 6.2.22 ॥
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय ॥ 6.2.23 ॥
इमे हि हरयः शूराः समरे कामरूपिणः।
तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ 6.2.24 ॥
कथञ्चित् सन्तरिष्यामस्ते वयं वरुणालयम्।
हतमित्येव तं मन्ये युद्धे समितिनन्दन ॥ 6.2.25 ॥
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्।
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥ 6.2.26 ॥