००१ रामेण हनुमत्कार्यश्लाघनम्

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ 6.1.1 ॥
कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम्।
मनसाऽपि यदन्येन न शक्यं धरणीतले ॥ 6.1.2 ॥
न हि तं परिपश्यामि यस्तरेत महार्णवम्।
अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ 6.1.3 ॥
[यो वीर्यबलसम्पन्नो द्विषद्भिरनिवारितः।] प्रविष्टः सत्त्वमाश्रित्य श्वसन् को नाम निष्क्रमेत् ॥ 6.1.4 ॥
को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्।
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ॥ 6.1.5 ॥
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्।
स्वयं विधाय स्वबलं सदृशं विक्रमस्य च ॥ 6.1.6 ॥
यो हि भृत्यो नियुक्तस्सन् भर्त्रा कर्मणि दुष्करे।
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ 6.1.7 ॥
नियिक्तो यः परं कार्यं न कुर्यान्नृपतेः प्रियम्।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ 6.1.8 ॥
नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ 6.1.9 ॥
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता।
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ 6.1.10 ॥
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ 6.1.11 ॥
इदं तु मम दीनस्य मनो भूयः प्रकर्षति।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ 6.1.12 ॥
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः।
मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः ॥ 6.1.13 ॥
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे।
हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ 6.1.14 ॥
ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः।
हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ॥ 6.1.15 ॥
सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम्।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ 6.1.16 ॥
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः।
हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ॥ 6.1.17 ॥
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम।
समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ 6.1.18 ॥
इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः।
हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ 6.1.19 ॥