एवमुक्तो हनुमता रामो दशरथात्मजः।
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ 5.66.1 ॥
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ 5.66.2 ॥
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला।
तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ 5.66.3 ॥
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे।
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ 5.66.4 ॥
अयं हि जलसम्भूतो मणिः सज्जनपूजितः।
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ 5.66.5 ॥
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्।
अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ 5.66.6 ॥
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः।
अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ 5.66.7 ॥
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः।
पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ॥ 5.66.8 ॥
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्।
मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥ 5.66.9 ॥
चिरं जीवति वैदेही यदि मासं धरिष्यति।
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ 5.66.10 ॥
नय मामपि तं देशं यत्र दृष्टा मम प्रिया।
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ 5.66.11 ॥
कथं सा मम सुश्रोणी भीरुभीरुः सती सदा।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ 5.66.12 ॥
शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः।
आवृतं वदनं तस्या न विराजति राक्षसैः ॥ 5.66.13 ॥
किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे।
एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ 5.66.14 ॥
मद्विहीना वरारोहा हनुमन् कथयस्व मे।
[दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी ] ॥ 5.66.15 ॥