ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ 5.65.1 ॥
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ 5.65.2 ॥
रामे समनुरागं च यश्चायं समयः कृतः।
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ॥ 5.65.3 ॥
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ 5.65.4 ॥
क्व सीता वर्तते देवी कथं च मयि वर्तते।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ 5.65.5 ॥
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ 5.65.6 ॥
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति।
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥ 5.65.7 ॥
समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम्।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ 5.65.8 ॥
तत्र लङ्केति नगरी रावणस्य दुरात्मनः।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ 5.65.9 ॥
तत्र दृष्टा मया सीता रावणान्तःपुरे सती।
सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ 5.65.10 ॥
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ 5.65.11 ॥
दुःखमासाद्यते देवी तथाऽदुःखोचिता सती ॥ 5.65.12 ॥
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ 5.65.13 ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।
देवी कथञ्चित् काकुत्स्थ त्वन्मना मार्गिता मया ॥ 5.65.14 ॥
इक्ष्वकुवंशविख्यातिं शनैः कीर्तयताऽनघ।
सा मया नरशार्दूल विश्वासमुपपादिता ॥ 5.65.15 ॥
ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ 5.65.16 ॥
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ 5.65.17 ॥
एवं मया महाभागा दृष्टा जनकनन्दिनी।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ 5.65.18 ॥
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ 5.65.19 ॥
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया।
अखिलेनेह यद् दृष्टमिति मामाह जानकी ॥ 5.65.20 ॥
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ 5.65.21 ॥
एष चूडामणिः श्रीमान् मया सुपरिरक्षितः।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ 5.65.22 ॥
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ॥ 5.65.23 ॥
जीवितं धारयिष्यामि मासं दशरथात्मज।
ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ॥ 5.65.24 ॥
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी।
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥ 5.65.25 ॥
एतदेव मयाऽऽख्यातं सर्वं राघव यद्यथा।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ॥ 5.65.26 ॥
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ॥ 5.65.27 ॥