०६३ सुग्रीव-दधिमुखसंवादः

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ 5.63.1 ॥
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ 5.63.2 ॥
स तु विश्वासितस्तेन सुग्रीवेण महात्मना।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ 5.63.3 ॥
नैवर्क्षरजसा राजन्न त्वया नापि वालिना।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥ 5.63.4 ॥
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः।
मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥ 5.63.5 ॥
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथाऽपरे।
निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ॥ 5.63.6 ॥
इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः।
वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ॥ 5.63.7 ॥
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥ 5.63.8 ॥
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ 5.63.9 ॥
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ 5.63.10 ॥
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ 5.63.11 ॥
किमयं वानरो राजन् वनपः प्रत्युपस्थितः।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ 5.63.12 ॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 5.63.13 ॥
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ 5.63.14 ॥
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ॥ 5.63.15 ॥
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः।
आगतैश्च प्रमथितं यथा मधुवनं हि तैः ॥ 5.63.16 ॥
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ 5.63.17 ॥
दृष्टा देवी न सन्देहो न चान्येन हनूमता।
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ॥ 5.63.18 ॥
कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे।
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ॥ 5.63.19 ॥
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः।
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ 5.63.20 ॥
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल।
वारयन्तश्च सहितास्तथा जानुभिराहताः ॥ 5.63.21 ॥
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ 5.63.22 ॥
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः।
अभिगम्य तथा सव- ? पिबन्ति मधु वानराः ॥ 5.63.23 ॥
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ 5.63.24 ॥
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥ 5.63.25 ॥
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ 5.63.26 ॥
प्रीतोऽस्मि सोऽहं युद्भुक्तं वनं तैः कृतकर्मभिः।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ 5.63.27 ॥
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान्।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ 5.63.28 ॥
प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द ॥ 5.63.29 ॥