०६२ दधिमुखेन किष्किन्धानिवर्तनम्

अव्यग्रमनसो यूयं मधु सेवत वानराः।
अहमावारयिष्यामि युष्माकं परिपन्थिनः ॥ 5.62.1 ॥
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः।
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ 5.62.2 ॥
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया।
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ 5.62.3 ॥
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः।
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ 5.62.4 ॥
पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम्।
जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ॥ 5.62.5 ॥
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ 5.62.6 ॥
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्।
पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥ 5.62.7 ॥
उत्पत्य च ततः सर्वे वनपालान् समागतान्।
ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ॥ 5.62.8 ॥
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते।
पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथाऽपरे ॥ 5.62.9 ॥
केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ 5.62.10 ॥
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ 5.62.11 ॥
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्।
क्षिपन्ति च तदाऽन्योन्यं स्खलन्ति च तथाऽपरे ॥ 5.62.12 ॥
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्।
हरयो मधुना मत्ताः केचित् सुप्ता महीतले ॥ 5.62.13 ॥
कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्।
कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ॥ 5.62.14 ॥
येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु।
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ 5.62.15 ॥
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ॥ 5.62.16 ॥
हनूमता दत्तवरैर्हतं मधुवनं बलात्।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ 5.62.17 ॥
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः।
हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ॥ 5.62.18 ॥
इहागच्छत गच्छामो वानरान् बलदर्पितान्।
बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ 5.62.19 ॥
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः।
पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ 5.62.20 ॥
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्।
समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ॥ 5.62.21 ॥
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः।
गृहीत्वाऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ॥ 5.62.22 ॥
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्।
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ 5.62.23 ॥
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्।
अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ 5.62.24 ॥
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः।
अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ 5.62.25 ॥
तं सवृक्षं महाबाहुमापतन्तं महाबलम्।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥ 5.62.26 ॥
मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः।
अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥ 5.62.27 ॥
स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः।
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥ 5.62.28 ॥
स समाश्वस्य सहसा सङ्क्रुद्धो राजमातुलः।
वानरान् वारयामास दण्डेन मधुमोहितान् ॥ 5.62.29 ॥
स कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः।
उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ॥ 5.62.30 ॥
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ 5.62.31 ॥
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ 5.62.32 ॥
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ 5.62.33 ॥
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः।
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ 5.62.34 ॥
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः।
अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ 5.62.35 ॥
एवमुक्त्वा दधिमुखो वनपालान् महाबलः।
जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ 5.62.36 ॥
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ 5.62.37 ॥
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ 5.62.38 ॥
सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ 5.62.39 ॥
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ 5.62.40 ॥