ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ 5.61.1 ॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ 5.61.2 ॥
मेरुमन्दरसङ्काशा मत्ता इव महागजाः।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ 5.61.3 ॥
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ 5.61.4 ॥
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ 5.61.5 ॥
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ 5.61.6 ॥
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः।
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥ 5.61.7 ॥
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ 5.61.8 ॥
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ 5.61.9 ॥
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥ 5.61.10 ॥
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ 5.61.11 ॥
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ 5.61.12 ॥
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः**।
अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तोऽभवन् ॥ 5.61.13 ॥
गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित्।
पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥ 5.61.14 ॥
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ 5.61.15 ॥
द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित्।
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ॥ 5.61.16 ॥
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ॥ 5.61.17 ॥
समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम्।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ 5.61.18 ॥
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्।
समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ 5.61.19 ॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ 5.61.20 ॥
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान।
समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ॥ 5.61.21 ॥
स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः।
प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ 5.61.22 ॥
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः।
मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ 5.61.23 ॥