तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ 5.60.1 ॥
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥ 5.60.2 ॥
दृष्टा देवी न चानीता इति तत्र निवेदनम्।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ 5.60.3 ॥
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ 5.60.4 ॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ 5.60.5 ॥
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ 5.60.6 ॥
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ॥ 5.60.7 ॥