०५९ हनुमता सीताशोकवर्णनम्

एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ 5.59.1 ॥
शीलमासाद्य सीताया मम च प्रवणं मनः।
[आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः।] ॥ 5.59.2 ॥
सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः।
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ 5.59.3 ॥
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती।
जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ॥ 5.59.4 ॥
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्।
अस्मिन्नेवङ्गते कार्ये भवतां च निवेदिते ॥ 5.59.5 ॥
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ 5.59.6 ॥
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्।
तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ॥ 5.59.7 ॥
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः।
कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ॥ 5.59.8 ॥
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ 5.59.9 ॥
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे ॥ 5.59.10 ॥
तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान्।
भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ॥ 5.59.11 ॥
मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।
देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ॥ 5.59.12 ॥
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ 5.59.13 ॥
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः।
अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ 5.59.14 ॥
पनसस्योरुवेगेन नीलस्य च महात्मनः।
मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ॥ 5.59.15 ॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ 5.59.16 ॥
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ 5.59.17 ॥
पितामहवरोत्सेकात् परमं दर्पमास्थितौ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ 5.59.18 ॥
अश्विनोर्माननार्थं हि सर्वलोकपितामहः।
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥ 5.59.19 ॥
करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम्।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ 5.59.20 ॥
एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम्।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ 5.59.21 ॥
मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ 5.59.22 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.59.23 ॥
अहं कोसलराजस्य दासः पवनसम्भवः।
हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ 5.59.24 ॥
अशोकवनिकामध्ये रावणस्य दुरात्मनः।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ॥ 5.59.25 ॥
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा।
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ॥ 5.59.26 ॥
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ 5.59.27 ॥
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ 5.59.28 ॥
तदेकवासः संवीता रजोध्वस्ता तथैव च।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥ 5.59.29 ॥
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ 5.59.30 ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा।
अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ 5.59.31 ॥
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया।
कथञ्चिन्मृगशावाक्षी विश्वासमुपपादिता ॥ 5.59.32 ॥
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ 5.59.33 ॥
यन्न हन्ति दशग्रीवं स महात्मा कृतागसम्।
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ 5.59.34 ॥
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ 5.59.35 ॥
एवमास्ते महाभागा सीता शोकपरायणा।
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥ 5.59.36 ॥