०५८ हनुमज्जाम्बवत्संवादः

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ 5.58.1 ॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्।
जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ 5.58.2 ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ 5.58.3 ॥
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ 5.58.4 ॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्।
रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ 5.58.5 ॥
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ 5.58.6 ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः।
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ 5.58.7 ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ 5.58.8 ॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ 5.58.9 ॥
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम्।
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ 5.58.10 ॥
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः।
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ 5.58.11 ॥
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः।
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ॥ 5.58.12 ॥
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः।
मैनाकमिति विख्यातं निवसन्तं महोदधौ ॥ 5.58.13 ॥
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः।
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥ 5.58.14 ॥
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः।
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ॥ 5.58.15 ॥
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना।
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ॥ 5.58.16 ॥
रामस्य च मया साह्ये वर्तितव्यमरिन्दम।
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ 5.58.17 ॥
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः।
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ 5.58.18 ॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ 5.58.19 ॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः।
ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ 5.58.20 ॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम्।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ 5.58.21 ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ 5.58.22 ॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ 5.58.23 ॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ 5.58.24 ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ 5.58.25 ॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ 5.58.26 ॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ॥ 5.58.27 ॥
एवमुक्ता मया सा तु सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ 5.58.28 ॥
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु।
मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ 5.58.29 ॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ 5.58.30 ॥
अभिपत्याशु तद्वक्रं निर्गतोऽहं ततः क्षणात्।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ 5.58.31 ॥
समानय च वैदेहीं राघवेण महात्मना।
सुखी भव महाबाहो प्रीताऽस्मि तव वानर ॥ 5.58.32 ॥
ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ 5.58.33 ॥
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।
छाया मे निगृहीता च न च पश्यामि किञ्चन ॥ 5.58.34 ॥
सोऽहं विगतवेगस्तु दिशो दश विलोकयन्।
न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ 5.58.35 ॥
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ 5.58.36 ॥
अधोभागे न मे दृष्टिः शोचता पातिता मया।
ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ 5.58.37 ॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ 5.58.38 ॥
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ 5.58.39 ॥
आस्य प्रमाणादधिकं तस्याः कायमपूरयम्।
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ 5.58.40 ॥
न च मां साधु बुबुधे मम वा निकृतं कृतम् ॥ 5.58.41 ॥
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात्।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ 5.58.42 ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि।
मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ 5.58.43 ॥
श्रृणोमि खगतानां च सिद्धानां चारणैः सह।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ 5.58.44 ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥ 5.58.45 ॥
अस्तं दिनकरे याते रक्षसां निलयं पुरम्।
प्रविष्टोऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ॥ 5.58.46 ॥
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा।
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥ 5.58.47 ॥
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्।
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥ 5.58.48 ॥
प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः।
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥ 5.58.49 ॥
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ॥ 5.58.50 ॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ 5.58.51 ॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने।
शोकसागरमासाद्य न पारमुपलक्षये ॥ 5.58.52 ॥
शोचता च मया दृष्टं प्राकारेण समावृतम्।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ 5.58.53 ॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥ 5.58.54 ॥
अशोकवनिकामध्ये शिंशुपापादपो महान्।
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥ 5.58.55 ॥
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम्।
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ 5.58.56 ॥
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्।
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ॥ 5.58.57 ॥
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्।
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥ 5.58.58 ॥
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ 5.58.59 ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।
कथञ्चिन्मृगशावाक्षी तूर्णमासादिता मया ॥ 5.58.60 ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ 5.58.61 ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ 5.58.62 ॥
ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ 5.58.63 ॥
ततो रावणदाराश्च रावणश्च महाबलः।
तं देशं समनुप्राप्त यत्र सीताऽभवत् स्थिता ॥ 5.58.64 ॥
तद् दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम्।
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ 5.58.65 ॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः।
त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ 5.58.66 ॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम्।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ 5.58.67 ॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ 5.58.68 ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ 5.58.69 ॥
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च।
अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ 5.58.70 ॥
किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ।
अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ 5.58.71 ॥
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे।
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ॥ 5.58.72 ॥
जानक्या परुषं वाक्यमेवमुक्तो दशाननः।
जज्वाल सहसा कोपच्चितास्थ इव पावकः ॥ 5.58.73 ॥
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्।
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ॥ 5.58.74 ॥
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः।
वरा मण्डोदरी नाम तया स प्रतिषेधितः ॥ 5.58.75 ॥
उक्तश्च मधुरां वाणीं तया स मदानार्दितः।
सीतया तव किं कार्यं महेन्द्रसमविक्रम ॥ 5.58.76 ॥
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च।
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥ 5.58.77 ॥
ततस्ताभिः समेताभिर्नारीभिः स महाबलः।
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ॥ 5.58.78 ॥
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ 5.58.79 ॥
तृणवद्भाषितं तासां गणयामास जानकी।
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥ 5.58.80 ॥
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः।
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ 5.58.81 ॥
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः।
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ 5.58.82 ॥
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ 5.58.83 ॥
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्।
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ 5.58.84 ॥
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ 5.58.85 ॥
रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ 5.58.86 ॥
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम्।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ 5.58.87 ॥
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ 5.58.88 ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ 5.58.89 ॥
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता।
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ॥ 5.58.90 ॥
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥ 5.58.91 ॥
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः।
इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ 5.58.92 ॥
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्।
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ॥ 5.58.93 ॥
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव।
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ 5.58.94 ॥
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ 5.58.95 ॥
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम्।
भर्त्राऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ 5.58.96 ॥
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ 5.58.97 ॥
तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम्।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ 5.58.98 ॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी।
आह रावणमुत्साद्य राघवो मां नयत्विति ॥ 5.58.99 ॥
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ 5.58.100 ॥
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ 5.58.101 ॥
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम्।
प्रायच्छत् परमोद्विग्ना वाचा मां सन्दिदेश ह ॥ 5.58.102 ॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ 5.58.103 ॥
उत्तरं पुनरेवेदं निश्चित्य मनसा तया।
हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ 5.58.104 ॥
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ 5.58.105 ॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत् ॥ 5.58.106 ॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ 5.58.107 ॥
ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ 5.58.108 ॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ 5.58.109 ॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ 5.58.110 ॥
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ 5.58.111 ॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः।
वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ 5.58.112 ॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥ 5.58.113 ॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ॥ 5.58.114 ॥
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ 5.58.115 ॥
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः।
ललामभूतो लङ्कायाः स वै विध्वंसितो मया ॥ 5.58.116 ॥
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्।
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ॥ 5.58.117 ॥
तमहं बलसम्पन्नं राक्षसं रणकोविदम्।
परिघेणातिघोरेण सूदयामि सहानुगम् ॥ 5.58.118 ॥
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ॥ 5.58.119 ॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ 5.58.120 ॥
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान्।
पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ॥ 5.58.121 ॥
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ 5.58.122 ॥
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ 5.58.123 ॥
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्।
तमक्षमागतं भग्नं निशम्य स दशाननः ॥ 5.58.124 ॥
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्।
व्यादिदेश सुसङ्क्रुद्धो बलिनं युद्धदुर्मदम् ॥ 5.58.125 ॥
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्।
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ 5.58.126 ॥
महतापि महाबाहुः प्रत्ययेन महाबलः।
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ॥ 5.58.127 ॥
सोऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम्।
ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ॥ 5.58.128 ॥
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः।
रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ 5.58.129 ॥
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना।
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ 5.58.130 ॥
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ 5.58.131 ॥
अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ 5.58.132 ॥

  • रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्।
    सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ 5.58.133 ॥
    सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत्।
    धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ 5.58.134 ॥
    वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे।
    राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ 5.58.135 ॥
    तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता।
    तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ 5.58.136 ॥
    मया च कथितं तस्मै वालिनश्च वधं प्रति।
    तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ 5.58.137 ॥
    वालिना हृतराज्येन सुग्रीवेण महाप्रभुः।
    चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ 5.58.138 ॥
    तेन वालिनमुत्पाट्य शरेणैकेन संयुगे।
    वानराणां महाराजः कृतः स प्लवता प्रभुः ॥ 5.58.139 ॥
    तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः।
    क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ 5.58.140 ॥
    यावन्न हरयो वीरा विधमन्ति बलं तव ॥ 5.58.141 ॥
    वानराणां प्रभावो हि न केन विदितः पुरा।
    देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ 5.58.142 ॥
    इति वानरराजस्त्वामाहेत्यभिहितो मया।
    मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ 5.58.143 ॥
    तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।
    मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ 5.58.144 ॥
    ततो विभीषणो नाम तस्य भ्राता महामतिः।
    तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ 5.58.145 ॥
    नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः।
    राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ 5.58.146 ॥
    दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।
    दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ 5.58.147 ॥
    सुमहत्यपराधेऽपि दूतस्यातुलविक्रम।
    विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥ 5.58.148 ॥
    विभीषणेनैवमुक्तो रावणः सन्दिदेश तान्।
    राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ॥ 5.58.149 ॥
    ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः।
    वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ 5.58.150 ॥
    तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः।
    बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ॥ 5.58.151 ॥
    ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्।
    अघोषयन् राजमार्गे नगरद्वारमागताः ॥ 5.58.152 ॥
    ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः ॥ 5.58.153 ॥
    आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्।
    ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥ 5.58.154 ॥
    पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्।
    दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ 5.58.155 ॥
    विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।
    लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ 5.58.156 ॥
    दहता च मया लङ्कां दग्धा सीता न संशयः।
    रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ॥ 5.58.157 ॥
    इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ 5.58.158 ॥
    अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्।
    जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥ 5.58.159 ॥
    ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्।
    अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ 5.58.160 ॥
    दीप्यमाने तु लाङ्गूले न मां दहति पावकः।
    हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ 5.58.161 ॥
    तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
    ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ 5.58.162 ॥
    पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ॥ 5.58.163 ॥
    ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः।
    प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ॥ 5.58.164 ॥
    ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम्।
    पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ 5.58.165 ॥
    राघवस्य प्रभावेन भवतां चैव तेजसा।
    सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ॥ 5.58.166 ॥
    एतत्सर्वं मया तत्र यथावदुपपादितम्।
    अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ 5.58.167 ॥