सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्।
तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ॥ 5.57.1 ॥
पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम्।
ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥ 5.57.2 ॥
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत्।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ 5.57.3 ॥
हनुमान् मारुतगतिर्महानौरिव सागरम्।
अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥ 5.57.4 ॥
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्।
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ 5.57.5 ॥
मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान्।
हनुमान् मेघजालानि विकर्षन्निव गच्छति ॥ 5.57.6 ॥
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ 5.57.7 ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 5.57.8 ॥
विविधाभ्रघनापन्नगोचरो धवलाम्बरः।
दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे ॥ 5.57.9 ॥
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः।
दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ॥ 5.57.10 ॥
नदन्नादेन महता मेघस्वनमहास्वनः।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ 5.57.11 ॥
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्।
अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ 5.57.12 ॥
आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ 5.57.13 ॥
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्।
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ॥ 5.57.14 ॥
स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम्।
महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ॥ 5.57.15 ॥
स पूरयामास कपिर्दिशो दश समन्ततः।
नदन्नादेन महता मेघस्वनमहास्वनः ॥ 5.57.16 ॥
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः।
ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ॥ 5.57.17 ॥
तस्य नानद्यमानस्य सुपर्णचरिते पथि।
फलतीवास्य घोषेण गगनं सार्कमण्डलम् ॥ 5.57.18 ॥
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः।
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ॥ 5.57.19 ॥
महतो वायुनुन्नस्य तोयदस्येव गर्जितम्।
शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ 5.57.20 ॥
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः।
वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥ 5.57.21 ॥
निशम्य नदतो नादं वानरास्ते समन्ततः।
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ 5.57.22 ॥
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः।
उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥ 5.57.23 ॥
सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः।
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ 5.57.24 ॥
तस्य बाहूरुवेगं च निनादं च महात्मनः।
निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥ 5.57.25 ॥
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च।
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ 5.57.26 ॥
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः।
वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥ 5.57.27 ॥
गिरिगह्वरसंलीनो यथा गर्जति मारुतः।
एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ 5.57.28 ॥
तमभ्रघनसङ्काशमापतन्तं महाकपिम्।
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ 5.57.29 ॥
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः।
निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ 5.57.30 ॥
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे।
छिन्नपक्ष इवाकाशात् पपात धरणीधरः ॥ 5.57.31 ॥
हनूमन्तं महात्मानं परिवार्योपतस्थिरे।
परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ 5.57.32 ॥
उपायनानि चादाय मूलानि च फलानि च।
प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ 5.57.33 ॥
हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा।
कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ 5.57.34 ॥
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः।
दृष्टा सीतेति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ॥ 5.57.35 ॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्।
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥ 5.57.36 ॥
हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ॥ 5.57.37 ॥
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा।
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥ 5.57.38 ॥
एकवेणीधरा बाला रामदर्शनलालसा।
उपवासपरिश्रान्ता जटिला मलिना कृशा ॥ 5.57.39 ॥
ततो दृष्टेति वचनं महार्थममृतोपमम्।
निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ 5.57.40 ॥
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः।
चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ॥ 5.57.41 ॥
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः।
अञ्चिता यतदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ 5.57.42 ॥
अपरे च हनूमन्तं वानरा वारणोपमम्।
आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ 5.57.43 ॥
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत्।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥ 5.57.44 ॥
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ 5.57.45 ॥
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ 5.57.46 ॥
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम्।
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥ 5.57.47 ॥
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः।
श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ 5.57.48 ॥
दर्शनं चापि लङ्कायाः सीताया रावणस्य च।
तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ 5.57.49 ॥
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ 5.57.50 ॥
हनूमता कीर्तिमता यशस्विना तथाऽङ्गदेनाङ्गदबद्धबाहुना।
मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥ 5.57.51 ॥