ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम्।
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ 5.56.1 ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ 5.56.2 ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ 5.56.3 ॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 5.56.4 ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ 5.56.5 ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ 5.56.6 ॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ 5.56.7 ॥
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ 5.56.8 ॥
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ 5.56.9 ॥
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः।
सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ॥ 5.56.10 ॥
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः।
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ 5.56.11 ॥
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्।
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ 5.56.12 ॥
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम्।
प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ॥ 5.56.13 ॥
वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः।
वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ॥ 5.56.14 ॥
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः।
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ॥ 5.56.15 ॥
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः।
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ॥ 5.56.16 ॥
कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ 5.56.17 ॥
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्।
बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ॥ 5.56.18 ॥
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम्।
लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ॥ 5.56.19 ॥
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ॥ 5.56.20 ॥
तमारुरोह हनुमान् पर्वतं पवनात्मजः।
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ 5.56.21 ॥
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु।
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ 5.56.22 ॥
स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ॥ 5.56.23 ॥
अधिरूह्य ततो वीरः पर्वतं पवनात्मजः।
ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ 5.56.24 ॥
स मारुत इवाकाशं मारुतस्यात्मसम्भवः।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ 5.56.25 ॥
ररास सह तैर्भूतैः प्रविशन् वसुधातलम्।
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ 5.56.26 ॥
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः।
निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ 5.56.27 ॥
कन्दरान्तरसंस्थानां पीडितानां महौजसाम्।
सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ॥ 5.56.28 ॥
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः।
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ 5.56.29 ॥
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः।
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥ 5.56.30 ॥
किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा।
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ 5.56.31 ॥
स च भूमिधरः श्रीमान् बलिना तेन पीडितः।
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥ 5.56.32 ॥
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः।
धरण्यां समतां यातः स बभूव धराधरः ॥ 5.56.33 ॥
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥ 5.56.34 ॥