०५५ हनुमता लङ्काग्नौ सीतामृत्यनुमानम्

लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः।
निर्वापयामास तदा समुद्रे हरिसत्तमः ॥ 5.55.1 ॥
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्।
अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ॥ 5.55.2 ॥
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत।
लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ 5.55.3 ॥
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम्।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ 5.55.4 ॥
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि।
क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ 5.55.5 ॥
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥ 5.55.6 ॥
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ 5.55.7 ॥
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।
अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ 5.55.8 ॥
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ 5.55.9 ॥
यदर्थमयमारम्भस्तत्कार्यमवसादितम्।
मया हि दहता लङ्कां न सीता परिरक्षिता ॥ 5.55.10 ॥
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ 5.55.11 ॥
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ 5.55.12 ॥
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात्।
इहैव प्राणसन्न्यासो ममापि ह्यद्य रोचते ॥ 5.55.13 ॥
किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ 5.55.14 ॥
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ 5.55.15 ॥
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ 5.55.16 ॥
धिगस्तु राजसं भावमनीशमनवस्थितम्।
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ 5.55.17 ॥
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः।
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ 5.55.18 ॥
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ 5.55.19 ॥
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥ 5.55.20 ॥
तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ 5.55.21 ॥
इति चिन्तयस्तस्य निमित्तान्युपपेदिरे।
पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ 5.55.22 ॥
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ 5.55.23 ॥
न हि धर्मात्मनस्तस्य भार्याममिततेजसः।
स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ 5.55.24 ॥
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च।
यन्मां दहनकर्माऽयं नादहद्धव्यवाहनः ॥ 5.55.25 ॥
त्रयाणां भरतादीनां भार्तॄणां देवता च या।
रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ 5.55.26 ॥
यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः।
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥ 5.55.27 ॥
पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ 5.55.28 ॥
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ 5.55.29 ॥
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ॥ 5.55.30 ॥
अहो खलु कृतं कर्म दुष्करं हि हनूमता।
अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥ 5.55.31 ॥
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ॥ 5.55.32 ॥
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा।
जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ 5.55.33 ॥
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ॥ 5.55.34 ॥
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा।
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ 5.55.35 ॥