वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ 5.54.1 ॥
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्।
यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥ 5.54.2 ॥
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ 5.54.3 ॥
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः ॥ 5.54.4 ॥
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः।
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ 5.54.5 ॥
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः।
भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ 5.54.6 ॥
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥ 5.54.7 ॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ॥ 5.54.8 ॥
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।
मुमोच हनुमानग्निं कालानलशिखोपमम् ॥ 5.54.9 ॥
शुकस्य च महातेजाः सारणस्य च धीमतः।
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ॥ 5.54.10 ॥
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥ 5.54.11 ॥
रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 5.54.12 ॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ 5.54.13 ॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ 5.54.14 ॥
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च।
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ 5.54.15 ॥
वर्जयित्वा महातेजा विभीषणगृहं प्रति।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ 5.54.16 ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥ 5.54.17 ॥
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ 5.54.18 ॥
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते।
मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥ 5.54.19 ॥
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्।
ननाद हनुमान् वीरो युगान्तजलदो यथा ॥ 5.54.20 ॥
श्वसनेन च संयोगादतिवेगो महाबलः।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ 5.54.21 ॥
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत्।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ॥ 5.54.22 ॥
तानि काञ्चनजालानि मुक्तामणिमयानि च।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ 5.54.23 ॥
तानि भग्नविमानानि निपेतुर्वसुधातले।
भवनानीव सिद्धानामम्बरात् पुण्यसङ्क्षये ॥ 5.54.24 ॥
स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम्।
नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥ 5.54.25 ॥
क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः।
काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ॥ 5.54.26 ॥
पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥ 5.54.27 ॥
वज्रविद्रुमवैदूर्यमुकारजतसंहितान्।
विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ॥ 5.54.28 ॥
नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः।
नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ॥ 5.54.29 ॥
क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः।
क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ॥ 5.54.30 ॥
हनूमता वेगवता वानरेण महात्मना।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥ 5.54.31 ॥
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः।
प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ 5.54.32 ॥
युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिविस्पृक्।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ॥ 5.54.33 ॥
आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन्।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ 5.54.34 ॥
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ 5.54.35 ॥
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा।
रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥ 5.54.36 ॥
किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य।
इहागतो वाग्रूपधारी रक्षोपसंहारकरः प्रकोपः ॥ 5.54.37 ॥
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः।
अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ॥ 5.54.38 ॥
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ 5.54.39 ॥
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ 5.54.40 ॥
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ॥ 5.54.41 ॥
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा।
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ॥ 5.54.42 ॥
स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्।
ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ॥ 5.54.43 ॥
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ॥ 5.54.44 ॥
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ॥ 5.54.45 ॥
[ततो महात्मा हनुमान् मनस्वी निशाचराणां क्षतकृत् कृतार्थः।
रामस्य नाथस्य जगत्त्रयाणां श्रीपादमूलं मनसा जगाम] ॥ 5.54.46 ॥
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ 5.54.47 ॥
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।
दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ॥ 5.54.48 ॥
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ॥ 5.54.49 ॥
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्।
कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥ 5.54.50 ॥
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ 5.54.51 ॥