०५३ रावणादेशेन राक्षसकृतहनुमत्पुच्छाग्निस्पर्शः

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ 5.53.1 ॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ 5.53.2 ॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ 5.53.3 ॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्।
समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ 5.53.4 ॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ 5.53.5 ॥
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ॥ 5.53.6 ॥
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः।
तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ 5.53.7 ॥
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत्।
रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ 5.53.8 ॥
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः।
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ॥ 5.53.9 ॥
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः।
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ॥ 5.53.10 ॥
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः।
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ॥ 5.53.11 ॥
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्।
बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ 5.53.12 ॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि।
किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ 5.53.13 ॥
लङ्का चारयितव्या वै पुनरेव भवेदिति।
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ 5.53.14 ॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ 5.53.15 ॥
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च।
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥ 5.53.16 ॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ 5.53.17 ॥
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ 5.53.18 ॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः।
हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ 5.53.19 ॥
अथापश्यद्विमानानि विचित्राणि महाकपिः।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ 5.53.20 ॥
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्।
गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ॥ 5.53.21 ॥
चत्वरेषु चतुष्केषु राजमार्गे तथैव च।
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ॥ 5.53.22 ॥
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्।
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ॥ 5.53.23 ॥
दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः।
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ 5.53.24 ॥
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः।
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ॥ 5.53.25 ॥
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम्।
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ॥ 5.53.26 ॥
मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ 5.53.27 ॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 5.53.28 ॥
यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः।
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥ 5.53.29 ॥
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्।
स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ 5.53.30 ॥
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः।
अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ॥ 5.53.31 ॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः।
जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ॥ 5.53.32 ॥
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ 5.53.33 ॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ 5.53.34 ॥
दृश्यते च महाज्वालः करोति न च मे रुजम्।
शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ॥ 5.53.35 ॥
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया।
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥ 5.53.36 ॥
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः।
रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥ 5.53.37 ॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च।
पितुश्च मम सख्येन न मां दहति पावकः ॥ 5.53.38 ॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ 5.53.39 ॥
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्।
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ॥ 5.53.40 ॥
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान्।
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥ 5.53.41 ॥
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः।
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ 5.53.42 ॥
स तं गृह्य महाबाहुः कालायसपरिष्कृतम्।
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ॥ 5.53.43 ॥
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्।
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥ 5.53.44 ॥