तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः।
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ॥ 5.52.1 ॥
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना।
निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ 5.52.2 ॥
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।
विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ 5.52.3 ॥
निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम्।
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ 5.52.4 ॥
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व।
वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ 5.52.5 ॥
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्।
तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ 5.52.6 ॥
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः।
परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ 5.52.7 ॥
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः।
ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ॥ 5.52.8 ॥
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।
युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ॥ 5.52.9 ॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ 5.52.10 ॥
न पापानां वधे पापं विद्यते शत्रुसूदन।
तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥ 5.52.11 ॥
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य।
उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥ 5.52.12 ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व।
दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ॥ 5.52.13 ॥
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्।
न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ 5.52.14 ॥
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः।
एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽपि ॥ 5.52.15 ॥
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः।
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ॥ 5.52.16 ॥
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि।
विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ 5.52.17 ॥
न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम्।
तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ 5.52.18 ॥
साधुर्वा यदिवाऽसाधुः परैरेष समर्पितः।
ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ॥ 5.52.19 ॥
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम्।
इह यः पुनरागच्छेत् परं पारं महोदधेः ॥ 5.52.20 ॥
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय।
भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ॥ 5.52.21 ॥
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ।
युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥ 5.52.22 ॥
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन।
त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ॥ 5.52.23 ॥
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु।
मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥ 5.52.24 ॥
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु।
तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥ 5.52.25 ॥
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्।
जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ॥ 5.52.26 ॥