०५१ हनुमता रामकथानिरूपणम्

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ 5.51.1 ॥
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम्।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ 5.51.2 ॥
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ 5.51.3 ॥
राजा दशरथो नाम रथकुञ्जरवाजिमान्।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ 5.51.4 ॥
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः।
पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ 5.51.5 ॥
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ 5.51.6 ॥
तस्य भार्या वने नष्टा सीता पतिमनुव्रता।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ 5.51.7 ॥
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ 5.51.8 ॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ 5.51.9 ॥
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ 5.51.10 ॥
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः।
रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ 5.51.11 ॥
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः।
हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥ 5.51.12 ॥
तां हरीणां सहस्राणि शतानि नियुतानि च।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ 5.51.13 ॥
वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ 5.51.14 ॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ 5.51.15 ॥
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ 5.51.16 ॥
तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ 5.51.17 ॥
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 5.51.18 ॥
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ 5.51.19 ॥
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ 5.51.20 ॥
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ 5.51.21 ॥
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ 5.51.22 ॥
लक्षितेयं मया सीता तथा शोकपायणा।
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ 5.51.23 ॥
नेयं जरयितुं शक्या सासुरैरमरैरपि।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ 5.51.24 ॥
तपस्सन्तापलब्धस्ते योऽय धर्मपरिग्रहः।
न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ 5.51.25 ॥
अवध्यतां तपोऽभिर्यां भवान् समनुपश्यति।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ 5.51.26 ॥
न दानवो न गन्धर्वो न यक्षो न च पन्नगः।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥ 5.51.27 ॥
न तु धर्मोपसंहारमधर्मफलसंहितम्।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ 5.51.28 ॥
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ 5.51.29 ॥
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥ 5.51.30 ॥
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ 5.51.31 ॥
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ 5.51.32 ॥
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ 5.51.33 ॥
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ 5.51.34 ॥
तदलं कालपाशेन सीताविग्रहरूपिणा।
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥ 5.51.35 ॥
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ 5.51.36 ॥
स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातॄन् सुतान् हितान्।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ 5.51.37 ॥
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम।
रामदासस्य दृतस्य वानरस्य विशेषतः ॥ 5.51.38 ॥
सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान्।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ 5.51.39 ॥
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च।
विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ॥ 5.51.40 ॥
सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ॥ 5.51.41 ॥
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः।
यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ॥ 5.51.42 ॥
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम्।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ 5.51.43 ॥
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥ 5.51.44 ॥
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ 5.51.45 ॥
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः।
दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ॥ 5.51.46 ॥