तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्।
कोपेन महताऽऽविष्टो रावणो लोकरावणः ॥ 5.50.1 ॥
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम्।
किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ॥ 5.50.2 ॥
येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा।
सोऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वाऽसुरः ॥ 5.50.3 ॥
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्।
कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ॥ 5.50.4 ॥
दुरात्मा पृच्छ्यतामेष कुतः किं वाऽस्य कारणम्।
वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥ 5.50.5 ॥
मत्पुरीमप्रधृष्यां वाऽऽगमने किं प्रयोजनम्।
आयोधने वा किं कार्यं त्वया कपे ॥ 5.50.6 ॥
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ 5.50.7 ॥
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्।
तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ॥ 5.50.8 ॥
चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्।
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ॥ 5.50.9 ॥
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ 5.50.10 ॥
अनृतं वदतश्चापि दुर्लभं तव जीवितम्।
अथवा यन्निमित्तं ते प्रवेशो रावणालये ॥ 5.50.11 ॥
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ 5.50.12 ॥
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥ 5.50.13 ॥
जातिरेव मम त्वेषा वानरोऽहमिहागतः।
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ॥ 5.50.14 ॥
वनं राक्षसराजस्य दर्शनार्थे विनाशितम्।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥ 5.50.15 ॥
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे।
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥ 5.50.16 ॥
पितामहादेव वरो ममाप्येषोऽभ्युपागतः।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥ 5.50.17 ॥
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः।
केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम् ॥ 5.50.18 ॥
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः।
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ 5.50.19 ॥