०४९ हनुमता रावणदर्शनम्

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः।
हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ॥ 5.49.1 ॥
भ्राजमानं महार्हेण काञ्चनेन विराजता।
मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ 5.49.2 ॥
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ 5.49.3 ॥
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ 5.49.4 ॥
विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः।
दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ॥ 5.49.5 ॥
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम्।
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥ 5.49.6 ॥
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता।
पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ॥ 5.49.7 ॥
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः।
भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ॥ 5.49.8 ॥
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ 5.49.9 ॥
अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः।
वालव्यजनहस्ताभिरारात् समुपसेवितम् ॥ 5.49.10 ॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥ 5.49.11 ॥
सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः।
कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ॥ 5.49.12 ॥
सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ॥ 5.49.13 ॥
अपश्यद्राक्षसपतिं हनुमानतितेजसम्।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ 5.49.14 ॥
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः।
विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ॥ 5.49.15 ॥
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्।
मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ 5.49.16 ॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ 5.49.17 ॥
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः।
स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ॥ 5.49.18 ॥
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः।
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥ 5.49.19 ॥
इति चिन्तां बहुविधामकरोन्मतिमान् हरिः।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ 5.49.20 ॥