०४८ हनुमद्-इन्द्रजिद्युद्धम्

ततः स रक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे।
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ॥ 5.48.1 ॥
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः ॥ 5.48.2 ॥
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः।
न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ 5.48.3 ॥
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः।
देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ 5.48.4 ॥
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे।
न सोऽस्ति कश्चित् त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ 5.48.5 ॥
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ 5.48.6 ॥
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ 5.48.7 ॥
बलानि सुसमृद्धानि साश्वनागरथानि च।
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥ 5.48.8 ॥
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ 5.48.9 ॥
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ 5.48.10 ॥
बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ 5.48.11 ॥
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम्।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ॥ 5.48.12 ॥
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा।
स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ॥ 5.48.13 ॥
न खल्वियं मतिः श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम्।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ 5.48.14 ॥
नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम्।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ 5.48.15 ॥
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ 5.48.16 ॥
ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः।
युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ॥ 5.48.17 ॥
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः।
निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ 5.48.18 ॥
स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः।
रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ 5.48.19 ॥
स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः।
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥ 5.48.20 ॥
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च।
निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥ 5.48.21 ॥
सुमहच्चापमादाय शितशल्यांश्च सायकान्।
हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ 5.48.22 ॥
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ।
दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ॥ 5.48.23 ॥
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः।
नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ॥ 5.48.24 ॥
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः।
विननाद महानादं व्यवर्धत च वेगवान् ॥ 5.48.25 ॥
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः।
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥ 5.48.26 ॥
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ।
कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ 5.48.27 ॥
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य।
शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ॥ 5.48.28 ॥
ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्।
मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ॥ 5.48.29 ॥
ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ 5.48.30 ॥
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः।
हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसङ्ग्रहम् ॥ 5.48.31 ॥
शराणआमग्रतस्तस्य पुनः समभिवर्तत।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ 5.48.32 ॥
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ 5.48.33 ॥
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ 5.48.34 ॥
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु।
जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ 5.48.35 ॥
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ 5.48.36 ॥
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः।
सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ 5.48.37 ॥
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्।
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥ 5.48.38 ॥
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः।
अभवन्निर्विचेष्टश्च पपात च महीतले ॥ 5.48.39 ॥
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः।
पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ॥ 5.48.40 ॥
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्।
हनूमांश्चिन्तयामास वरदानं पितामहात् ॥ 5.48.41 ॥
न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्।
इत्येव मत्वा विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः ॥ 5.48.42 ॥
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च।
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥ 5.48.43 ॥
अस्त्रेणापि हि बद्धस्य भयं मम न जायते।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ 5.48.44 ॥
ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः।
राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ॥ 5.48.45 ॥
स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥ 5.48.46 ॥
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम्।
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ 5.48.47 ॥
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च।
कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ॥ 5.48.48 ॥
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ 5.48.49 ॥
अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्।
विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ 5.48.50 ॥
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा।
पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ॥ 5.48.51 ॥
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत।
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ॥ 5.48.52 ॥
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः।
समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ॥ 5.48.53 ॥
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः।
व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ॥ 5.48.54 ॥
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 5.48.55 ॥
कोऽयं कस्य कुतो वाऽत्र किं कार्यं को व्यपाश्रयः।
इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः ॥ 5.48.56 ॥
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे।
राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् ॥ 5.48.57 ॥
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥ 5.48.58 ॥
स ददर्श महातेजा रावणः कपिसत्तमम्।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ 5.48.59 ॥
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ 5.48.60 ॥
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ॥ 5.48.61 ॥
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥ 5.48.62 ॥