सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान्।
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ॥ 5.47.1 ॥
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ 5.47.2 ॥
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम्।
रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ॥ 5.47.3 ॥
पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्**।
तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ॥ 5.47.4 ॥
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम्।
सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ 5.47.5 ॥
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा।
दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ 5.47.6 ॥
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः।
बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ॥ 5.47.7 ॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये।
अवस्थितं विस्मितजातसम्भ्रमः समैक्षताक्षो बहुमानचक्षुषा ॥ 5.47.8 ॥
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः।
विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ 5.47.9 ॥
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम्।
समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ 5.47.10 ॥
ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम्।
अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ॥ 5.47.11 ॥
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्।
तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥ 5.47.12 ॥
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ 5.47.13 ॥
ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान्।
समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ॥ 5.47.14 ॥
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः।
नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ॥ 5.47.15 ॥
ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे।
उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ 5.47.16 ॥
स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः।
कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ 5.47.17 ॥
ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः।
शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥ 5.47.18 ॥
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम्।
कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ॥ 5.47.19 ॥
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ॥ 5.47.20 ॥
स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः।
समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ 5.47.21 ॥
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान्।
रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ 5.47.22 ॥
स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते।
शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥ 5.47.23 ॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः।
अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ 5.47.24 ॥
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन्।
महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ 5.47.25 ॥
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः।
न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ 5.47.26 ॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे।
असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ॥ 5.47.27 ॥
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः।
पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ॥ 5.47.28 ॥
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते।
प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ 5.47.29 ॥
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्।
चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥ 5.47.30 ॥
स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने।
जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ 5.47.31 ॥
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः।
प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ 5.47.32 ॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्।
तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ॥ 5.47.33 ॥
ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते।
समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ॥ 5.47.34 ॥
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः।
मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ 5.47.35 ॥
स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः।
महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ 5.47.36 ॥
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः।
सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ॥ 5.47.37 ॥
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम्।
तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 5.47.38 ॥