हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ 5.46.1 ॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्।
प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ॥ 5.46.2 ॥
सन्दिदेश दशग्रीवो वीरान्नयविशारदान्।
हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ॥ 5.46.3 ॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ 5.46.4 ॥
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्।
कर्म चापि समाधेयं देशकालविरोधिनम् ॥ 5.46.5 ॥
सर्वथा तन्महद्भूतं महाबलपरिग्रहम्।
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ 5.46.6 ॥
सनागयक्षगन्धर्वा देवासुरमहर्षयः।
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ 5.46.7 ॥
तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः।
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ॥ 5.46.8 ॥
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः।
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ॥ 5.46.9 ॥
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः।
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ 5.46.10 ॥
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः।
न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥ 5.46.11 ॥
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्।
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ 5.46.12 ॥
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः।
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ 5.46.13 ॥
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे।
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ 5.46.14 ॥
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः।
समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ 5.46.15 ॥
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः।
श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ॥ 5.46.16 ॥
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्।
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ 5.46.17 ॥
तोरणस्थं महोत्साहं महासत्त्वं महाबलम्।
महामतिं महावेगं महाकायं महाबलम् ॥ 5.46.18 ॥
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः।
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 5.46.19 ॥
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ 5.46.20 ॥
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ॥ 5.46.21 ॥
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः।
किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ॥ 5.46.22 ॥
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ 5.46.23 ॥
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः।
चकार कदनं भूयो व्यवर्धत च वेगवान् ॥ 5.46.24 ॥
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः।
निपपात महवेगो विद्युद्राशिर्गिराविव ॥ 5.46.25 ॥
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्।
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ 5.46.26 ॥
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि।
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ 5.46.27 ॥
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे।
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ 5.46.28 ॥
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ 5.46.29 ॥
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ 5.46.30 ॥
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना।
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥ 5.46.31 ॥
भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान्।
एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ 5.46.32 ॥
पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत्।
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ 5.46.33 ॥
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः।
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ 5.46.34 ॥
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्।
जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ॥ 5.46.35 ॥
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु।
बलं तदवशेषं च नाशयास वानरः ॥ 5.46.36 ॥
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्।
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ 5.46.37 ॥
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ 5.46.38 ॥
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान्।
समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 5.46.39 ॥