०४५ हनुमता प्रहस्तसुतवधः

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ॥ 5.45.1 ॥
महाबलपरीवारा धनुष्मन्तो महाबलाः।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ 5.45.2 ॥
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ 5.45.3 ॥
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः।
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ॥ 5.45.4 ॥
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान्।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥ 5.45.5 ॥
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ 5.45.6 ॥
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः।
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥ 5.45.7 ॥
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥ 5.45.8 ॥
स शरान् मोघयामास तेषामाशुचरः कपिः।
रथवेगं च वीराणां विचरन् विमलेऽम्बरे ॥ 5.45.9 ॥
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ 5.45.10 ॥
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ॥ 5.45.11 ॥
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः।
मुष्टिनाऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ॥ 5.45.12 ॥
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ 5.45.13 ॥
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च।
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ॥ 5.45.14 ॥
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः।
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ 5.45.15 ॥
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि।
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ 5.45.16 ॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोऽभिजगाम तोरणम् ॥ 5.45.17 ॥