०४४ रावणेन जम्बुमालिप्रेक्षणम्

सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ 5.44.1 ॥
रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः।
महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ 5.44.2 ॥
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम्।
विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ 5.44.3 ॥
तस्य विस्फारघोषेण धनुषो महता दिशः।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ 5.44.4 ॥
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः।
हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ॥ 5.44.5 ॥
तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम्।
जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ 5.44.6 ॥
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ 5.44.7 ॥
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्।
शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ 5.44.8 ॥
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्।
यथाऽऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ 5.44.9 ॥
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ 5.44.10 ॥
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ 5.44.11 ॥
विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ 5.44.12 ॥
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्।
चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ 5.44.13 ॥
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे।
उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ 5.44.14 ॥
स शरैः पूरिततनुः क्रोधेन महता वृतः।
तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ 5.44.15 ॥
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः।
परिघं पातयामास जम्बुमालेर्महोरसि ॥ 5.44.16 ॥
तस्य चैव शिरो नास्ति न बाहू न च जानुनी।
न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ 5.44.17 ॥
स हतस्तरसा तेन जम्बुमाली महाबलः।
पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ 5.44.18 ॥
जम्बुमालिं च निहतं किङ्करांश्च महाबलान्।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ 5.44.19 ॥
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले।
अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ 5.44.20 ॥