०४३ हनुमता लङ्कादहनचिन्तनम्

ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः ॥ 5.43.1 ॥
तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम्।
इति सञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ॥ 5.43.2 ॥
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्।
आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ॥ 5.43.3 ॥
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ 5.43.4 ॥
सम्प्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम्।
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत् ॥ 5.43.5 ॥
स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 5.43.6 ॥
तस्यास्फोटितशब्देन महता श्रोत्रघातिना।
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥ 5.43.7 ॥
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.43.8 ॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 5.43.9 ॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 5.43.10 ॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 5.43.11 ॥
एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥ 5.43.12 ॥
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्।
विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ॥ 5.43.13 ॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ॥ 5.43.14 ॥
आवर्त इव गङ्गायास्तोयस्य विपुलो महान्।
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ 5.43.15 ॥
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ 5.43.16 ॥
उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः।
ततस्तं भ्रामयामास शताधारं महाबलः ॥ 5.43.17 ॥
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥ 5.43.18 ॥
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 5.43.19 ॥
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्।
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ 5.43.20 ॥
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 5.43.21 ॥
दशनागबलाः केचित् केचिद्दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 5.43.22 ॥
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥ 5.43.23 ॥
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि।
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥ 5.43.24 ॥
नेयमस्ति पुरी लङ्का न यूयं न च रावणः।
यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥ 5.43.25 ॥