ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च।
बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ॥ 5.42.1 ॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 5.42.2 ॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 5.42.3 ॥
स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 5.42.4 ॥
ततस्तं गिरिसङ्काशमतिकायं महाबलम्।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5.42.5 ॥
कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ 5.42.6 ॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ 5.42.7 ॥
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 5.42.8 ॥
यूयमेवाभिजानीत योऽयं यद्वा करिष्यति।
अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥ 5.42.9 ॥
अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम्।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 5.42.10 ॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 5.42.11 ॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 5.42.12 ॥
अशोकवनिकामध्ये राजन् भीमवपुः कपिः।
सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ॥ 5.42.13 ॥
न च तं जानकी सीता हरिं हरिणलोचना।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ॥ 5.42.14 ॥
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा।
प्रेषितो वाऽपि रामेण सीतान्वेषणकाङ्क्षया ॥ 5.42.15 ॥
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 5.42.16 ॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः।
यत्र सा जानकी सीता स तेन न विनाशितः ॥ 5.42.17 ॥
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते।
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 5.42.18 ॥
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता।
प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ॥ 5.42.19 ॥
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि।
सीता सम्भाषिता येन तद्वनं च विनाशितम् ॥ 5.42.20 ॥
मनःपरिगृहीतां तां तव रक्षोगणेश्वर।
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 5.42.21 ॥
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 5.42.22 ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ 5.42.23 ॥
आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान्।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 5.42.24 ॥
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ॥ 5.42.25 ॥
महोदरा महादंष्ट्रा घोररूपा महाबलाः।
युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ॥ 5.42.26 ॥
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम्।
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ 5.42.27 ॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 5.42.28 ॥
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ 5.42.29 ॥
हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः।
क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ 5.42.30 ॥
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 5.42.31 ॥
तस्यास्फोटितशब्देन महता सानुनादिना।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ 5.42.32 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.42.33 ॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 5.42.34 ॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 5.42.35 ॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 5.42.36 ॥
तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ 5.42.37 ॥
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम्।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 5.42.38 ॥
आससादायसं भीमं परिघं तोरणाश्रितम्।
स तं परिघमादय जघान रजनीचरान् ॥ 5.42.39 ॥
स पन्नगमिवादाय स्फुरन्तं विनतासुतः।
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥ 5.42.40 ॥
स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः।
युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ॥ 5.42.41 ॥
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः।
निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥ 5.42.42 ॥
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः।
समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥ 5.42.43 ॥