स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया।
तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ 5.41.1 ॥
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ 5.41.2 ॥
न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते।
न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ 5.41.3 ॥
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते।
हतप्रवीरा हि रणे राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम् ॥ 5.41.4 ॥
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ 5.41.5 ॥
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः।
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ 5.41.6 ॥
इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम्।
परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ 5.41.7 ॥
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह।
तथैव खल्वात्मबलं च सारवत् सम्मानयेन्मां च रणे दशाननः ॥ 5.41.8 ॥
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्।
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्व्रजे ॥ 5.41.9 ॥
इदमस्य नृशंसस्य नन्दनोपममुत्तमम्।
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ 5.41.10 ॥
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।
अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ॥ 5.41.11 ॥
ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः।
त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ 5.41.12 ॥
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः।
निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ 5.41.13 ॥
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः।
उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ 5.41.14 ॥
ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम्।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ 5.41.15 ॥
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ 5.41.16 ॥
ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम्।
न बभौ तद्वनं तत्र दावानलहतं यथा ॥ 5.41.17 ॥
व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ 5.41.18 ॥
लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः।
शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ 5.41.19 ॥
सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ 5.41.20 ॥
स तस्य कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः।
युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥ 5.41.21 ॥