०४० हनुमता सीताश्वासनम्

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ 5.40.1 ॥
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर।
अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥ 5.40.2 ॥
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः।
संस्पृशेयं सकामाऽहं तथा कुरु दयां मयि ॥ 5.40.3 ॥
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ 5.40.4 ॥
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः।
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ 5.40.5 ॥
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥ 5.40.6 ॥
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ 5.40.7 ॥
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ 5.40.8 ॥
असह्यानि न दुःखानि वाचश्च हृदयच्छिदः।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ 5.40.9 ॥
धारयिष्यामि मासं तु जीवितं शत्रुसूदन।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ 5.40.10 ॥
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि।
त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ॥ 5.40.11 ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।
तथाऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ॥ 5.40.12 ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ 5.40.13 ॥
कथञ्चिद् भवती दृष्टा न कालः परिशोचितुम्।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ॥ 5.40.14 ॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 5.40.15 ॥
हत्वा तु समरे क्रूरं रावणं सहबान्धवम्।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ 5.40.16 ॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।
प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ 5.40.17 ॥
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्।
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ॥ 5.40.18 ॥
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः।
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ॥ 5.40.19 ॥
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम्।
वर्धमानं महावेगमुवाच जनकात्मजा ॥ 5.40.20 ॥
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ 5.40.21 ॥
हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ॥ 5.40.22 ॥
यथा च स महाबाहुर्मां तारयति राघवः।
अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥ 5.40.23 ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ 5.40.24 ॥
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ॥ 5.40.25 ॥