मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ 5.39.1 ॥
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ 5.39.2 ॥
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम।
अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ 5.39.3 ॥
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव।
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥ 5.39.4 ॥
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः।
शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे ॥ 5.39.5 ॥
ज्ञत्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम्।
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ 5.39.6 ॥
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ॥ 5.39.7 ॥
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान्।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ 5.39.8 ॥
यथा स च महाबाहुर्मां तारयति राघवः।
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ 5.39.9 ॥
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्।
तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ॥ 5.39.10 ॥
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ 5.39.11 ॥
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः।
पराक्रमविधिं वीरो विधिवत् संविधास्यति ॥ 5.39.12 ॥
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ॥ 5.39.13 ॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ 5.39.14 ॥
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा।
यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतोऽग्रतः ॥ 5.39.15 ॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।
सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ 5.39.16 ॥
स हि सागरपर्यन्तां महीं शासितुमीहते।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ 5.39.17 ॥
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्।
जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् ॥ 5.39.18 ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ 5.39.19 ॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ 5.39.20 ॥
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ 5.39.21 ॥
गते हि हरिशार्दूल पुनरागमनाय तु।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ 5.39.22 ॥
तवादर्शनजः शोको भूयो मां परितापयेत्।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥ 5.39.23 ॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ 5.39.24 ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ 5.39.25 ॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ 5.39.26 ॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ 5.39.27 ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ 5.39.28 ॥
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे।
विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ॥ 5.39.29 ॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः।
मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 5.39.30 ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ 5.39.31 ॥
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥ 5.39.32 ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ 5.39.33 ॥
स वानरसहस्राणां कोटीभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ 5.39.34 ॥
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः।
मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ 5.39.35 ॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ 5.39.36 ॥
असकृत् तैर्महोत्साहैः ससागरधराधरा।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ 5.39.37 ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ 5.39.38 ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ 5.39.39 ॥
तदलं परितापेन देवि शोको व्यपैतु ते।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ 5.39.40 ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ 5.39.41 ॥
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ 5.39.42 ॥
सगणं रावणं हत्वा राघवो रघुनन्दनः।
त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ 5.39.43 ॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ॥ 5.39.44 ॥
निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यबान्धवे।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ 5.39.45 ॥
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि।
रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ 5.39.46 ॥
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ 5.39.47 ॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ॥ 5.39.48 ॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ॥ 5.39.49 ॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ 5.39.50 ॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ 5.39.51 ॥
मा रुदो देवि शोकेन मा भूत् ते मनसोऽप्रियम्।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ 5.39.52 ॥
रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ 5.39.53 ॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे।
न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥ 5.39.54 ॥