०३८ हनुमता सीताचूडामणियाचना

ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः।
सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ॥ 5.38.1 ॥
युक्तरूपं त्वया देवि भाषितं शुभदर्शने।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ 5.38.2 ॥
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ 5.38.3 ॥
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते।
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ 5.38.4 ॥
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ 5.38.5 ॥
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः।
चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ 5.38.6 ॥
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया।
स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ 5.38.7 ॥
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः।
सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ 5.38.8 ॥
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ 5.38.9 ॥
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ 5.38.10 ॥
एवमुक्ता हनुमता सीता सुरसुतोपमा।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ 5.38.11 ॥
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ 5.38.12 ॥
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके।
तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ 5.38.13 ॥
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु।
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ 5.38.14 ॥
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ 5.38.15 ॥
दारयन् स च मां काकस्तत्रैव परिलीयते।
न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ 5.38.16 ॥
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ 5.38.17 ॥
त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा।
भक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ 5.38.18 ॥
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्।
क्रुद्ध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ 5.38.19 ॥
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती।
लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता ॥ 5.38.20 ॥
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः।
स तत्र पुनरेवाथ वायसः समुपागमत् ॥ 5.38.21 ॥
ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम्।
वायसः सहसाऽऽगम्य विददार स्तनान्तरे ॥ 5.38.22 ॥
पुनः पुनरथोत्पत्य विददार स मां भृशम्।
ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ 5.38.23 ॥
वायसेन ततस्तेन बलवत्क्लिश्यमानया।
स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ 5.38.24 ॥
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा।
आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ 5.38.25 ॥
केन ते नागनासोरु विक्षतं वै स्तनान्तरम्।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ 5.38.26 ॥
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत।
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ 5.38.27 ॥
पुत्रः किल स शक्रस्य वायसः पततां वरः।
धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ 5.38.28 ॥
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः।
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ 5.38.29 ॥
स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत्।
स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ॥ 5.38.30 ॥
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।
ततस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥ 5.38.31 ॥
अनुसृप्तस्तदा काको जगाम विविधां गतिम्।
लोककाम इमं लोकं सर्वं वै विचचार ह ॥ 5.38.32 ॥
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः।
त्रील्लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥ 5.38.33 ॥
स तं निपतितं भूमौ शरण्यः शरणागतम्।
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ 5.38.34 ॥
न शर्म लब्ध्वा तमेव शरणं गतः ॥ 5.38.35 ॥
परिद्यूनं विषण्णं च स तमायान्तमब्रवीत्।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ 5.38.36 ॥
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।
दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 5.38.37 ॥
स रामाय नमस्कृत्वा राज्ञे दशरथाय च।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ 5.38.38 ॥
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्।
कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ 5.38.39 ॥
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ 5.38.40 ॥
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ 5.38.41 ॥
अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्।
भर्तारं ससमुद्रायाधरण्या वासवोपमम् ॥ 5.38.42 ॥
एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ 5.38.43 ॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः।
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 5.38.44 ॥
तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि सम्भ्रमः।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 5.38.45 ॥
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ 5.38.46 ॥
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ 5.38.47 ॥
ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः।
समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ॥ 5.38.48 ॥
वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम्।
अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ 5.38.49 ॥
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे।
रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ 5.38.50 ॥
कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ 5.38.51 ॥
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ 5.38.52 ॥
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 5.38.53 ॥
राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति।
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ 5.38.54 ॥
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा।
उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ 5.38.55 ॥
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी।
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ 5.38.56 ॥
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः।
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ 5.38.57 ॥
पितरं मातरं चैव सम्मान्याभिप्रसाद्य च।
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ 5.38.58 ॥
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्।
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ 5.38.59 ॥
संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः।
पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ 5.38.60 ॥
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ 5.38.61 ॥
वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता।
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ 5.38.62 ॥
मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ 5.38.63 ॥
स ममार्थाय कुशलं वक्तव्यो वचनान्मम।
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ 5.38.64 ॥
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्।
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ 5.38.65 ॥
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ 5.38.66 ॥
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ 5.38.67 ॥
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ 5.38.68 ॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥ 5.38.69 ॥
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्।
अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ 5.38.70 ॥
मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ 5.38.71 ॥
हर्षेण महता युक्तः सीतादर्शनजेन सः।
हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ 5.38.72 ॥
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्।
गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ 5.38.73 ॥