सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ 5.37.1 ॥
अमृतं विषसंसृष्टं त्वया वानरभाषितम्।
यच्च नान्यमना रामो यच्च शोकपरायणः ॥ 5.37.2 ॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ 5.37.3 ॥
विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ 5.37.4 ॥
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति।
प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ 5.37.5 ॥
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्।
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ 5.37.6 ॥
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ 5.37.7 ॥
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम।
रावणेन नृशंसेन समयो यः कृतो मम ॥ 5.37.8 ॥
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ 5.37.9 ॥
मम प्रतिप्रदानं हि रावणस्य न रोचते।
रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ 5.37.10 ॥
ज्येष्टा कन्याऽनला नाम विभीषणसुता कपे।
तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ 5.37.11 ॥
असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ 5.37.12 ॥
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ 5.37.13 ॥
चतुर्दश सहस्राणि राक्षसानां जघान यः।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ 5.37.14 ॥
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः।
अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ॥ 5.37.15 ॥
शरजालांशुमाञ्छूरः कपे रामदिवाकरः।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ 5.37.16 ॥
इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम्।
अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ॥ 5.37.17 ॥
कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ॥ 5.37.18 ॥
अथवा मोचयिष्यामि त्वामद्यैव वरानने।
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ 5.37.19 ॥
त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम्।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ 5.37.20 ॥
द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम्।
व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ॥ 5.37.21 ॥
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।
पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ॥ 5.37.22 ॥
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ 5.37.23 ॥
कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा।
मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ॥ 5.37.24 ॥
न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ 5.37.25 ॥
यथैवाहमिह प्राप्तस्तथैवाहमसंशयः।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ 5.37.26 ॥
मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम्।
हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ 5.37.27 ॥
हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि।
तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ 5.37.28 ॥
कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ 5.37.29 ॥
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥ 5.37.30 ॥
न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा।
तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ॥ 5.37.31 ॥
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः।
दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ 5.37.32 ॥
स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ 5.37.33 ॥
मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ 5.37.34 ॥
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ 5.37.35 ॥
सपर्वतवनोद्देशां साट्टप्रकारतोरणाम्।
लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ॥ 5.37.36 ॥
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ 5.37.37 ॥
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ 5.37.38 ॥
तव सत्त्वं बलं चैव विजानामि महाकपे।
वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ॥ 5.37.39 ॥
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति।
उदधेरप्रमेयस्य पारं वानरपुङ्गव ॥ 5.37.40 ॥
जानामि गमने शक्तिं नयने चापि ते मम।
अवश्यं सम्प्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ 5.37.41 ॥
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ।
वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ 5.37.42 ॥
अहमाकाशमापन्ना ह्युपर्युपरि सागरम्।
प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ॥ 5.37.43 ॥
पतिता सागरे चाहं तिमिनक्रझषाकुले।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥ 5.37.44 ॥
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन।
कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ॥ 5.37.45 ॥
ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ 5.37.46 ॥
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ 5.37.47 ॥
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ 5.37.48 ॥
युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ॥ 5.37.49 ॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च।
कथञ्चित् साम्पराये त्वां जयेयुः कपिसत्तम ॥ 5.37.50 ॥
अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ 5.37.51 ॥
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ 5.37.52 ॥
अहं वापि विपद्येयं रक्षोभिरभितर्जिता।
त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ॥ 5.37.53 ॥
कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान्।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ 5.37.54 ॥
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ।
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ॥ 5.37.55 ॥
त्वया हि सह रामस्य महानागमने गुणः ॥ 5.37.56 ॥
मयि जीवितमायत्तं राघवस्य महात्मनः।
भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ 5.37.57 ॥
तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् ॥ 5.37.58 ॥
भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर।
न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ॥ 5.37.59 ॥
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता।
अनीशा किं करिष्यामि विनाथा विवशा सती ॥ 5.37.60 ॥
यदि रामो दशग्रीवमिह हत्वा सबान्धवम्।
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ 5.37.61 ॥
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ 5.37.62 ॥
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ 5.37.63 ॥
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ 5.37.64 ॥
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ 5.37.65 ॥