भूय एव महातेजा हनुमान् मारुतात्मजः।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ 5.36.1 ॥
वानरोऽहं महाभागे दूतो रामस्य धीमतः।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ 5.36.2 ॥
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ 5.36.3 ॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्।
भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ॥ 5.36.4 ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ 5.36.5 ॥
ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ 5.36.6 ॥
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ 5.36.7 ॥
शतयोजनविस्तीर्णः सागरो मकरालयः।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ 5.36.8 ॥
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।
यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः ॥ 5.36.9 ॥
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।
यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ 5.36.10 ॥
प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम्।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ 5.36.11 ॥
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ 5.36.12 ॥
कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम्।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ 5.36.13 ॥
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ 5.36.14 ॥
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ 5.36.15 ॥
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति।
कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ॥ 5.36.16 ॥
द्विविधं त्रिविधोपायमुपायमपि सेवते।
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ॥ 5.36.17 ॥
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ 5.36.18 ॥
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ॥ 5.36.19 ॥
कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ॥ 5.36.20 ॥
सुखानामुचितो नित्यमसुखानामनूचितः।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ 5.36.21 ॥
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च।
अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ॥ 5.36.22 ॥
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ 5.36.23 ॥
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः।
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ 5.36.24 ॥
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति।
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ 5.36.25 ॥
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः।
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ॥ 5.36.26 ॥
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ 5.36.27 ॥
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ 5.36.28 ॥
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम्।
नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ॥ 5.36.29 ॥
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा।
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ॥ 5.36.30 ॥
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा।
श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥ 5.36.31 ॥
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ 5.36.32 ॥
न त्वामिहस्थां जानीते रामः कमललोचने।
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥ 5.36.33 ॥
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ॥ 5.36.34 ॥
विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम्।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ 5.36.35 ॥
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ 5.36.36 ॥
तवादर्शनजेनार्ये शोकेन स परिप्लुतः।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ 5.36.37 ॥
मलयेन च विन्ध्येन मेरुणा मन्दरेण च।
दर्दुरेण च ते देवि शपे मूलफलेन च ॥ 5.36.38 ॥
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्।
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ 5.36.39 ॥
क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ।
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥ 5.36.40 ॥
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते।
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ 5.36.41 ॥
नैव दंशान्न मशकान् न कीटान्न सरीसृपान्।
राघवोऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ॥ 5.36.42 ॥
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।
नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ॥ 5.36.43 ॥
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ॥ 5.36.44 ॥
दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत् सुमनोहरम्।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ 5.36.45 ॥
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः।
दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ 5.36.46 ॥
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका।
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ 5.36.47 ॥