०३५ सीता-हनुमत्संवादः

तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात्।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ 5.35.1 ॥
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्।
वानराणां नराणां च कथमासीत् समागमः ॥ 5.35.2 ॥
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ 5.35.3 ॥
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ 5.35.4 ॥
एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः।
ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ॥ 5.35.5 ॥
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि।
भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ 5.35.6 ॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।
लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ 5.35.7 ॥
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ 5.35.8 ॥
तेजसाऽऽदित्यसङ्काशः क्षमया पृथिवीसमः।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ 5.35.9 ॥
रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ 5.35.10 ॥
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ 5.35.11 ॥
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ 5.35.12 ॥
राजविद्याविनीतश्च ब्राह्मणानामुपासिता।
श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ॥ 5.35.13 ॥
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ 5.35.14 ॥
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ 5.35.15 ॥
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्।
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ 5.35.16 ॥
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ 5.35.17 ॥
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ॥ 5.35.18 ॥
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः।
महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ 5.35.19 ॥
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्।
षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ॥ 5.35.20 ॥
सत्यधर्मपरः श्रीमान् सङ्ग्रहानुग्रहे रतः।
देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ 5.35.21 ॥
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ 5.35.22 ॥
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ।
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ 5.35.23 ॥
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ 5.35.24 ॥
ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ 5.35.25 ॥
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ॥ 5.35.26 ॥
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ 5.35.27 ॥
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ 5.35.28 ॥
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः।
तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ 5.35.29 ॥
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू।
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ 5.35.30 ॥
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ॥ 5.35.31 ॥
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।
तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥ 5.35.32 ॥
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ 5.35.33 ॥
ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ 5.35.34 ॥
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः।
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ 5.35.35 ॥
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः।
तदाऽऽसीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ 5.35.36 ॥
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।
यान्याभरणजालानि पातितानि महीतले ॥ 5.35.37 ॥
तानि सर्वाणि रामाय आनीय हरियूथपाः।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ 5.35.38 ॥
तानि रामाय दत्तानि मयैवोपहृतानि च।
स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ॥ 5.35.39 ॥
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव।
तेन देवप्रकाशेन देवेन परिदेवितम् ॥ 5.35.40 ॥
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥ 5.35.41 ॥
शयितं च चिरं तेन दुःकार्तेन महात्मना।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ॥ 5.35.42 ॥
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः।
राघवः सहसौमित्रिः सुग्रीवे सन्न्यवेदयत् ॥ 5.35.43 ॥
स तवादर्शनादार्ये राघवः परितप्यते।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ 5.35.44 ॥
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्।
तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ॥ 5.35.45 ॥
तवादर्शनशोकेन राघवः प्रविचाल्यते।
महता भूमिकम्पने महानिव शिलोच्चयः ॥ 5.35.46 ॥
काननानि सुरम्याणि नदीः प्रस्रवणानि च।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ 5.35.47 ॥
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ 5.35.48 ॥
सहितौ रामसुग्रीवावुभावकुरुतां तदा।
समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ 5.35.49 ॥
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ 5.35.50 ॥
ततो निहत्य तरसा रामो वालिनमाहवे।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥ 5.35.51 ॥
रामसुग्रीवयोरैक्यं देव्येवं समजायत।
हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ 5.35.52 ॥
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान्।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ 5.35.53 ॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा।
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ 5.35.54 ॥
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 5.35.55 ॥
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः।
प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ॥ 5.35.56 ॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकपरीतानामहोरात्रगणा गताः ॥ 5.35.57 ॥
ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ 5.35.58 ॥
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ 5.35.59 ॥
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान्।
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ 5.35.60 ॥
तवनाशं च वैदेहि वालिनश्च वधं तथा।
प्रायोववेशमस्माकं मरणं च जटायुषः ॥ 5.35.61 ॥
तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम्।
कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ॥ 5.35.62 ॥
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ 5.35.63 ॥
यवीयान् केन म भ्राता हतः क्व च निपातितः।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ 5.35.64 ॥
अङ्गदोऽकथयत्तस्य जनस्थानेः महद्वधम्।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ 5.35.65 ॥
जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः।
त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ 5.35.66 ॥
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्।
अङ्गप्रमुखास्तूर्णं ततः सम्प्रस्थिता वयम् ॥ 5.35.67 ॥
विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तरम्।
त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ 5.35.68 ॥
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः।
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥ 5.35.69 ॥
तथाऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः।
व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ॥ 5.35.70 ॥
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥ 5.35.71 ॥
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ 5.35.72 ॥
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्।
सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ॥ 5.35.73 ॥
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ 5.35.74 ॥
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः।
अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह ॥ 5.35.75 ॥
मयेयमसहायेन चरता कामरूपिणा।
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ 5.35.76 ॥
दिष्ट्याऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम्।
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥ 5.35.77 ॥
दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम्।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ 5.35.78 ॥
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते।
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ 5.35.79 ॥
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ 5.35.80 ॥
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।
तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ 5.35.81 ॥
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ 5.35.82 ॥
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः।
अचिराद् राघवो देवि त्वामितो नयिताऽनघे ॥ 5.35.83 ॥
एवं विश्वासिता सीता हेतुभिः शोककर्शिता।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ 5.35.84 ॥
अतुलं च गता हर्षं प्रहर्षेण च जानकी।
नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥ 5.35.85 ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ 5.35.86 ॥
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ 5.35.87 ॥
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ 5.35.88 ॥
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्।
ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ 5.35.89 ॥