तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः।
दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ 5.34.1 ॥
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः।
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ 5.34.2 ॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ 5.34.3 ॥
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः।
कृतवाञ्छोकसन्तप्तः शिरसा तेऽभिवादनम् ॥ 5.34.4 ॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ 5.34.5 ॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ 5.34.6 ॥
तया समागते तस्मिन् प्रीतिरुत्पादिताऽद्भुता।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ 5.34.7 ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः।
सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ 5.34.8 ॥
यथा यथा समीपं स हनुमानुपसर्पति।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥ 5.34.9 ॥
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे।
रूपान्तरमुपागम्य स एवायं हि रावणः ॥ 5.34.10 ॥
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ 5.34.11 ॥
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्।
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ॥ 5.34.12 ॥
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना।
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ 5.34.13 ॥
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्।
उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ॥ 5.34.14 ॥
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्।
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ 5.34.15 ॥
उपवासकृशां दीनां कामरूप निशाचर।
सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ॥ 5.34.16 ॥
अथवा नैतदेवं हि यन्मया परिशङ्कितम्।
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ 5.34.17 ॥
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे।
गुणान् रामस्य कथय प्रियस्य मम वानर ॥ 5.34.18 ॥
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ 5.34.19 ॥
अहो स्वप्नस्य सुखता याऽहमेंव चिराहृता।
प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ 5.34.20 ॥
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्।
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥ 5.34.21 ॥
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्।
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ 5.34.22 ॥
किन्नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्।
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥ 5.34.23 ॥
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः।
सम्बुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ॥ 5.34.24 ॥
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्।
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥ 5.34.25 ॥
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा।
न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ 5.34.26 ॥
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः।
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ॥ 5.34.27 ॥
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा।
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ 5.34.28 ॥
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा।
रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥ 5.34.29 ॥
स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥ 5.34.30 ॥
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ 5.34.31 ॥
अपकृष्याश्रमपदान्मृगरूपेण राघवम्।
शून्ये येनापनीताऽसि तस्य द्क्ष्यसि यत्फलम् ॥ 5.34.32 ॥
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान्।
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ 5.34.33 ॥
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः।
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ 5.34.34 ॥
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः।
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥ 5.34.35 ॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ 5.34.36 ॥
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ 5.34.37 ॥
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्।
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ 5.34.38 ॥
अहं सुग्रीवसचिवो हनुमान्नाम वानरः।
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ 5.34.39 ॥
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः।
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ 5.34.40 ॥
नाहमस्मि तथा देवि यथा मामवगच्छसि।
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ 5.34.41 ॥