सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ 5.33.1 ॥
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ 5.33.2 ॥
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ 5.33.3 ॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ 5.33.4 ॥
सुराणामसुराणां वा नागगन्धर्वरक्षसाम्।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ 5.33.5 ॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने।
वसूनां वा वरारोहे देवता प्रतिभासे मे ॥ 5.33.6 ॥
किन्नु चन्द्रमसा हीना पतिता विबुधालयात्।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥ 5.33.7 ॥
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ॥ 5.33.8 ॥
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे।
वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ॥ 5.33.9 ॥
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे।
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥ 5.33.10 ॥
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि।
न त्वां देवीमहं मन्ये राज्ञः सञ्ज्ञावधारणात् ॥ 5.33.11 ॥
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये।
महिषी भूमिपालस्य राजकन्याऽसि मे मता ॥ 5.33.12 ॥
रावणेन जनस्थानाद् बलादपहृता यदि।
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ 5.33.13 ॥
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्।
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ॥ 5.33.14 ॥
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता।
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ॥ 5.33.15 ॥
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ॥ 5.33.16 ॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः।
सीता च नाम नाम्नाऽहं भार्या रामस्य धीमतः ॥ 5.33.17 ॥
समा द्वादश तत्राहं राघवस्य निवेशने।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥ 5.33.18 ॥
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ 5.33.19 ॥
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ 5.33.20 ॥
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ 5.33.21 ॥
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम।
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥ 5.33.22 ॥
स राजा सत्यवाग् देव्या वरदानमनुस्मरन्।
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ 5.33.23 ॥
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः।
ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ॥ 5.33.24 ॥
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ 5.33.25 ॥
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किञ्चिदप्रियम्।
अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ॥ 5.33.26 ॥
स विहायोत्तरीयाणि महार्हाणि महायशाः।
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ 5.33.27 ॥
साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी।
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥ 5.33.28 ॥
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः।
पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ॥ 5.33.29 ॥
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः।
प्रविष्टाः स्म पुराऽदृष्टं वन गम्भीरदर्शनम् ॥ 5.33.30 ॥
वसतो दण्डकारण्ये तस्याहममितौजसः।
रक्षसाऽपहृता भार्या रावणेन दुरात्मना ॥ 5.33.31 ॥
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ 5.33.32 ॥