ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।
वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ॥ 5.32.1 ॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ 5.32.2 ॥
अहो भीममिदं रूपं वानरस्य दुरासदम्।
दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ॥ 5.32.3 ॥
विललाप भृशं सीता करुणं भयमोहिता।
रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥ 5.32.4 ॥
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ 5.32.5 ॥
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम्।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ 5.32.6 ॥
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्।
ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ 5.32.7 ॥
सा तं समीक्ष्यैव भृशं विसञ्ज्ञा गतासुकल्पेव बभूव सीता।
चिरेण सञ्ज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ 5.32.8 ॥
स्वप्ने मयाऽयं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः।
स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ 5.32.9 ॥
स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः।
सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ 5.32.10 ॥
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव।
तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ॥ 5.32.11 ॥
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ 5.32.12 ॥
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ 5.32.13 ॥
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा ॥ 5.32.14 ॥