एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ 5.31.1 ॥
राजा दशरथो नाम रथकुञ्जरवाजिमान्।
पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ॥ 5.31.2 ॥
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः।
चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥ 5.31.3 ॥
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः।
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥ 5.31.4 ॥
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।
पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ 5.31.5 ॥
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ 5.31.6 ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता।
रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥ 5.31.7 ॥
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥ 5.31.8 ॥
तेन तत्र महारण्ये मृगयां परिधावता।
राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ 5.31.9 ॥
ततस्त्वमर्षापहृता जानकी रावणेन तु।
वञ्जयित्वा वने रामं मृगरूपेण मायया ॥ 5.31.10 ॥
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्।
आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥ 5.31.11 ॥
ततः स वालिनं हत्वा रामः परपुरञ्जयः।
प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ॥ 5.31.12 ॥
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः।
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥ 5.31.13 ॥
अहं सम्पातिवचनाच्छतयोजनमायतम्।
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ॥ 5.31.14 ॥
यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम्।
अश्रौषं राघवस्याहं सेयमासादिता मया ॥ 5.31.15 ॥
विररामैव मुक्त्वाऽसौ वाचं वानरपुङ्गवः।
जानकी चापि तच्छृत्वा विस्मयं परमं गता ॥ 5.31.16 ॥
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्।
उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ॥ 5.31.17 ॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ 5.31.18 ॥
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम्।
ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ 5.31.19 ॥