हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ 5.30.1 ॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ 5.30.2 ॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ 5.30.3 ॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता।
गूढेन चरता तावदवेक्षितमिदं मया ॥ 5.30.4 ॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ 5.30.5 ॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः।
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ 5.30.6 ॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ 5.30.7 ॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम्।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥ 5.30.8 ॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ 5.30.9 ॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ 5.30.10 ॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम्।
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ 5.30.11 ॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ 5.30.12 ॥
रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः।
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ 5.30.13 ॥
सीतासन्देशरहितं मामितस्त्वरया गतम्।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ 5.30.14 ॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात्।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ 5.30.15 ॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ 5.30.16 ॥
अहं त्वति तनुश्चैव वानरश्च विशेषतः।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ 5.30.17 ॥
रावणं मन्यमाना मां सीता भीता भविष्यति।
वानरस्य विशेषेण कथं स्यादभिभाषणम् ॥ 5.30.18 ॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ 5.30.19 ॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ 5.30.20 ॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी।
जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ 5.30.21 ॥
सीतया च कृते शब्दे सहसा राक्षसीगणः।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ 5.30.22 ॥
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः।
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ 5.30.23 ॥
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्।
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ 5.30.24 ॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ 5.30.25 ॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ 5.30.26 ॥
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः।
आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः ॥ 5.30.27 ॥
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम्।
शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः ॥ 5.30.28 ॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ 5.30.29 ॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ 5.30.30 ॥
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते।
सागरेण परिक्षिप्ते गुप्त वसति जानकी ॥ 5.30.31 ॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे।
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ॥ 5.30.32 ॥
विमृशंश्च न पश्यामि यो हते मयि वानरः।
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ॥ 5.30.33 ॥
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्।
नतु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः ॥ 5.30.34 ॥
असत्यानि च युद्धानि संशयो मे न रोचते।
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ 5.30.35 ॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे।
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ॥ 5.30.36 ॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ 5.30.37 ॥
अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ 5.30.38 ॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 5.30.39 ॥
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा।
इति सञ्चिन्त्य हनुमांश्चकार मतिमान् मतिम् ॥ 5.30.40 ॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्।
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ॥ 5.30.41 ॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ 5.30.42 ॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ 5.30.43 ॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ 5.30.44 ॥