तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम्।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ 5.29.1 ॥
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम्।
प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ॥ 5.29.2 ॥
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः।
अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ 5.29.3 ॥
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः।
प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥ 5.29.4 ॥
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः।
वासः स्थितायाः शिखराग्रदत्याः किञ्चित् परिस्रंसत चारुगात्र्याः ॥ 5.29.5 ॥
एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधु सिद्धैः।
वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ॥ 5.29.6 ॥
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म।
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ 5.29.7 ॥
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा।
अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ 5.29.8 ॥