०२८ सीतया रावणवाक्यमननम्

सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता।
सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ 5.28.1 ॥
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च।
कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ 5.28.2 ॥
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः।
यत्राहमेवं परिभर्त्स्यमाना जीवामि किञ्चित्क्षणमप्यपुण्या ॥ 5.28.3 ॥
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे।
विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य ॥ 5.28.4 ॥
नैवास्ति दोषं मम नूनमत्र वध्याऽहमस्याप्रियदर्शनस्य।
भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥ 5.28.5 ॥
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः।
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ 5.28.6 ॥
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ।
बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ 5.28.7 ॥
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या।
एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ॥ 5.28.8 ॥
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ।
नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ॥ 5.28.9 ॥
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्।
यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ 5.28.10 ॥
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र।
रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ॥ 5.28.11 ॥
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे।
पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ 5.28.12 ॥
मोघो हि धर्मश्चरितो मयाऽयं तथैकपत्नीत्वमिदं निरर्थम्।
या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ 5.28.13 ॥
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥ 5.28.14 ॥
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा।
मोघं चरित्वाऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ॥ 5.28.15 ॥
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि।
विषस्य दाता नहि मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ 5.28.16 ॥
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती।
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ॥ 5.28.17 ॥
शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्ग्रथनं गृहीत्वा।
उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ 5.28.18 ॥
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य ॥ 5.28.19 ॥
शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके।
प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥ 5.28.20 ॥