इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ 5.27.1 ॥
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ 5.27.2 ॥
अद्येदानीं तवानार्ये सीते पापविनिश्चये।
राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ॥ 5.27.3 ॥
सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ 5.27.4 ॥
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ 5.27.5 ॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।
राक्षसानामभावाय भर्तुरस्या भवाय च ॥ 5.27.6 ॥
सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः।
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ॥ 5.27.7 ॥
तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम्।
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ॥ 5.27.8 ॥
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ 5.27.9 ॥
युक्तां हंससहस्रेण स्वयमास्थाय राघवः।
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ॥ 5.27.10 ॥
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता।
रामेण सङ्गता सीता भास्करेण प्रभा यथा ॥ 5.27.11 ॥
राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम्।
आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ॥ 5.27.12 ॥
ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा।
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ॥ 5.27.13 ॥
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः।
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ 5.27.14 ॥
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना।
चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ॥ 5.27.15 ॥
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः।
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥ 5.27.16 ॥
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्।
इहोपयातः काकुत्स्थः सीतया सह भार्यया ॥ 5.27.17 ॥
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥ 5.27.18 ॥
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्।
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ 5.27.19 ॥
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ॥ 5.27.20 ॥
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः।
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ 5.27.21 ॥
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः।
रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ॥ 5.27.22 ॥
विमानात् पुष्पकादद्य रावणः पतितो भुवि।
कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥ 5.27.23 ॥
पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥ 5.27.24 ॥
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः।
पतितोऽवाविछरा भूमौ गर्दभाद्भयमोहितः ॥ 5.27.25 ॥
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः।
उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ॥ 5.27.26 ॥
दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम्।
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ॥ 5.27.27 ॥
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना।
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ॥ 5.27.28 ॥
एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः।
रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ॥ 5.27.29 ॥
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित्।
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥ 5.27.30 ॥
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ 5.27.31 ॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ॥ 5.27.32 ॥
चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः।
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ॥ 5.27.33 ॥
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः।
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ 5.27.34 ॥
लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा।
सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ 5.27.35 ॥
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता।
दग्धा रामस्य दूतेन वानरेण तरस्विना ॥ 5.27.36 ॥
पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः।
लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ 5.27.37 ॥
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः।
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ॥ 5.27.38 ॥
अपगच्छत नश्यध्वं सीतामाप स राघवः।
घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥ 5.27.39 ॥
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्।
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥ 5.27.40 ॥
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम्।
अभियाचाम वैदैहीमेतद्धि मम रोचते ॥ 5.27.41 ॥
यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते।
सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ 5.27.42 ॥
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया।
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ 5.27.43 ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।
अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ 5.27.44 ॥
अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये।
विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ॥ 5.27.45 ॥
छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम्।
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥ 5.27.46 ॥
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्।
राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ 5.27.47 ॥
निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ॥ 5.27.48 ॥
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्।
ईषच्च हृषितो वाऽस्या दक्षिणाया ह्यदक्षिणः ॥ 5.27.49 ॥
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः।
वेपमानः सूचयति राघवं पुरतः स्थितम् ॥ 5.27.50 ॥
पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी।
सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥ 5.27.51 ॥