प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ 5.26.1 ॥
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती।
उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ 5.26.2 ॥
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ 5.26.3 ॥
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम्।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ 5.26.4 ॥
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः।
वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ 5.26.5 ॥
अश्मसारमिदं नूनमथवाप्यजरामरम्।
हृदयं मम येनेदं न दुःखेनावशीर्यते ॥ 5.26.6 ॥
धिङ्मामनार्यामसतीं याऽहं तेन विना कृता।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ 5.26.7 ॥
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना।
भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥ 5.26.8 ॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम्।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ 5.26.9 ॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम्।
रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ 5.26.10 ॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ 5.26.11 ॥
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ 5.26.12 ॥
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥ 5.26.13 ॥
राक्षसानां सहस्राणि जनस्थाने चतुर्दश।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ 5.26.14 ॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ 5.26.15 ॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः।
रणे रामेण निहतः स मां किं नाभिपद्यते ॥ 5.26.16 ॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा।
न तु राघवबाणानां गतिरोधीह विद्यते ॥ 5.26.17 ॥
किं तु तत्कारणं येन रामो दृढपराक्रमः।
रक्षसाऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ 5.26.18 ॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ 5.26.19 ॥
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्।
गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ 5.26.20 ॥
कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ 5.26.21 ॥
यदि मामिह जानीयाद्वर्तमानां स राघवः।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 5.26.22 ॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ 5.26.23 ॥
ततो निहतनाथानां राक्षसीनां गृहे गृहे।
यथाऽहमेवं रुदती तथा भूयो न संशयः ॥ 5.26.24 ॥
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ 5.26.25 ॥
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला।
अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ 5.26.26 ॥
अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम्।
दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययम् ॥ 5.26.27 ॥
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै।
अचिरेण तु कालेन भविष्यति हतप्रभा ॥ 5.26.28 ॥
नूनं लङ्का हते पापे रावणे राक्षसाधमे।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ 5.26.29 ॥
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी।
भविष्यति पुरी लङ्का नष्टभर्त्री यथाऽङ्गना ॥ 5.26.30 ॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ 5.26.31 ॥
सान्धकारा हतद्योता हतराक्षसपुङ्गवा।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ 5.26.32 ॥
यदि नाम स शूरो मां रामो रक्तान्तलोचनः।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ 5.26.33 ॥
अनेन तु नृशंसेन रावणेनाधमेन मे।
समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ 5.26.34 ॥
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः।
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ 5.26.35 ॥
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः।
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥ 5.26.36 ॥
साऽहं कथं करिष्यामि तं विना प्रियदर्शनम्।
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥ 5.26.37 ॥
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह।
क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ॥ 5.26.38 ॥
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः।
जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥ 5.26.39 ॥
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः।
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ 5.26.40 ॥
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ 5.26.41 ॥
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः।
मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ 5.26.42 ॥
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः।
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ॥ 5.26.43 ॥
किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम।
याऽहं सीदामि रामेण हीना मुख्येन भामिनी ॥ 5.26.44 ॥
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः।
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ॥ 5.26.45 ॥
अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ।
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ 5.26.46 ॥
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना।
छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ 5.26.47 ॥
साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा।
न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति ॥ 5.26.48 ॥
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥ 5.26.49 ॥
प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम्।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ 5.26.50 ॥
साऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना।
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥ 5.26.51 ॥